४. आरुप्पकथावण्णना

४५५-४५६. इदानि आरुप्पकथा नाम होति. तत्थ येसं ‘‘चत्तारो आरुप्पा आनेञ्जा’’ति वचनं निस्साय ‘‘सब्बेपि ते धम्मा असङ्खता’’ति लद्धि, ते सन्धाय आकासानञ्चायतनन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ उत्तानत्थमेवाति. साधकसुत्तम्पि अत्थं अजानित्वा आहटत्ता अनाहटसदिसमेवाति.

आरुप्पकथावण्णना.