३. सच्चकथावण्णना

४५२-४५४. इदानि सच्चकथा नाम होति. तत्थ येसं ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानी’’ति (सं. नि. ५.१०९०) सुत्तं निस्साय ‘‘चत्तारि सच्चानि निच्चानि असङ्खतानी’’ति लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अयञ्हिस्स अधिप्पायो – दुक्खसमुदयमग्गेसु वत्थुसच्चं सङ्खतं, लक्खणसच्चं असङ्खतं. निरोधे वत्थुसच्चं नाम नत्थि असङ्खतमेव तन्ति. तस्मा आमन्ताति आह. तं पनस्स लद्धिमत्तमेव. सो हि दुक्खं वत्थुसच्चं इच्छति, तथा समुदयं मग्गञ्च. यानि पन नेसं बाधनपभवनिय्यानिकलक्खणानि, तानि लक्खणसच्चं नामाति, न च बाधनलक्खणादीहि अञ्ञानि दुक्खादीनि नाम अत्थीति. ताणानीतिआदीसु अधिप्पायो वुत्तनयेनेव वेदितब्बो.

दुक्खसच्चन्ति पञ्हे लद्धिवसेन लक्खणं सन्धाय पटिजानाति. दुक्खन्ति पञ्हे वत्थुं सन्धाय पटिक्खिपति. इतो परं सुद्धिकपञ्हा च संसन्दनपञ्हा च सब्बे पाळिअनुसारेनेव वेदितब्बा. अवसाने लद्धिपतिट्ठापनत्थं आहटसुत्तं अत्थस्स मिच्छा गहितत्ता अनाहटसदिसमेवाति.

सच्चकथावण्णना.