७. चित्तारम्मणकथावण्णना
४३६-४३८. इदानि चित्तारम्मणकथा नाम होति. तत्थ चेतोपरियाये ञाणन्ति वचनमत्तमेव गहेत्वा ‘‘तं ञाणं चित्तारम्मणमेवा’’ति येसं लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथस्स ‘‘यो सरागादिवसेन चित्तं जानाति, तस्स रागादयोपि आरम्मणा होन्ति, तस्मा न वत्तब्बं तं चित्तारम्मणञ्ञेवा’’ति चोदनत्थं ननु अत्थि कोचीतिआदि आरद्धं. फस्सारम्मणेति फस्ससङ्खाते आरम्मणे. वेदनारम्मणेतिआदीसुपि एसेव नयो. पुन फस्सारम्मणे ञाणं न वत्तब्बन्ति पुट्ठो फस्सस्स फुसनलक्खणं मनसिकरोतो फस्सोवारम्मणं होतीति पटिजानाति. किं पनेतं फस्सपरियाये ञाणन्ति पुट्ठो पन तादिसस्स सुत्तपदस्स अभावा पटिक्खिपति. वेदनादीसुपि एसेव नयो. इदानि यं निस्साय लद्धि, तदेव दस्सेत्वा लद्धिं पतिट्ठापेतुं ननु चेतोपरियाये ञाणन्तिआदिमाह. सा पनेसा वचनमत्ताभिनिवेसेन पतिट्ठापितापि अप्पतिट्ठापिताव होतीति.
चित्तारम्मणकथावण्णना.