८. अनागतञाणकथावण्णना

४३९-४४०. इदानि अनागतञाणकथा नाम होति. तत्थ अनागतं नाम अन्तरम्पि अत्थि, अनन्तरम्पि. तेसु अनन्तरे एकन्तेनेव ञाणं नत्थि. यथा च अनन्तरे, तथा एकवीथिएकजवनपरियापन्नेपि. तत्थ ये सब्बस्मिम्पि अनागते ञाणं इच्छन्ति, सेय्यथापि अन्धका; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यं ते अनागते ञाणं, किं तेन अनन्तरं अनागतं मूलादिवसेन जानाती’’ति चोदेतुं अनागतं मूलतोतिआदिमाह. तत्थ मूलतोतिआदीनि सब्बानि कारणवेवचनानेव. कारणञ्हि यं अत्तनो फलं करोति, तं तत्थ मूलयति पतिट्ठातीति मूलं. ततो च तं हिनोति पवत्तयतीति हेतु. तदेव तं निदेति ‘‘हन्द नं गण्हथा’’ति. निय्यातेति वियाति निदानं. ततो तं सम्भवतीति सम्भवो. पभवतीति पभवो. तत्थ च तं समुट्ठाति, तं वा नं समुट्ठापेतीति समुट्ठानं. तदेव नं आहरतीति आहारो. तञ्चस्स अपरिच्चजितब्बट्ठेन आरम्मणं. तदेव चेतं पटिच्च एतीति पच्चयो. ततो नं समुदेतीति समुदयोति वुच्चति. यस्मा पन अनन्तरं चित्तं एतेहाकारेहि न सक्का जानितुं, तस्मा न हेवन्ति पटिक्खिपति. अनागतं हेतुपच्चयतन्ति या अनन्तरानागते चित्ते हेतुपच्चयता, तं जानाति. ये तत्थ धम्मा हेतुपच्चया होन्ति, ते जानातीति अत्थो. सेसपदेसुपि एसेव नयो. गोत्रभुनोतिआदि यस्मिं अनागते ञाणं न उप्पज्जति, तं सरूपतो दस्सेतुं वुत्तं. पाटलिपुत्तस्साति सुत्तं यस्मिं अनागते ञाणं उप्पज्जति, तं दस्सेतुं आहटं. यस्मा पनेतं न सब्बस्मिं अनागते ञाणस्स साधकं; तस्मा अनाहटमेवाति.

अनागतञाणकथावण्णना.