६. सम्मुतिञाणकथावण्णना
४३४-४३५. इदानि सम्मुतिञाणकथा नाम होति. तत्थ सम्मुतिसच्चं परमत्थसच्चन्ति द्वे सच्चानि. ये पन एवं विभागं अकत्वा सच्चन्ति वचनसामञ्ञेन सम्मुतिञाणम्पि ‘‘सच्चारम्मणमेवा’’ति वदन्ति, सेय्यथापि अन्धका; ते अयुत्तवादिनोति तेसं वादविसोधनत्थं अयं कथा आरद्धा. तत्थ न वत्तब्बन्ति पुच्छा परवादिस्स, परमत्थसच्चं सन्धाय पटिञ्ञा सकवादिस्स. सम्मुतिसच्चम्हीति सम्मुतिं अनुपविट्ठे सच्चम्हि. पच्चत्ते वा भुम्मवचनं, सम्मुतिसच्चन्ति अत्थो. सम्मुतिञाणं सच्चारम्मणञ्ञेवाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. ततो नं ‘‘यदि तं अविसेसेन सच्चारम्मणञ्ञेव, तेन ञाणेन दुक्खपरिञ्ञादीनि करेय्या’’ति चोदेतुं तेन ञाणेनातिआदिमाह.
सम्मुतिञाणकथावण्णना.