७. लक्खणकथावण्णना
४००. इदानि लक्खणकथा नाम होति. तत्थ ‘‘येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ती’’ति (दी. नि. १.२५८) इमं सुत्तं अयोनिसो गहेत्वा लक्खणसमन्नागतो बोधिसत्तोव होतीति येसं लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.
चक्कवत्तिसत्तोति पञ्हेसु यस्मा चक्कवत्ती सत्तोपि च बोधिसत्तोपि, तस्मा अबोधिसत्तं सन्धाय पटिक्खिपति. बोधिसत्तं सन्धाय पटिजानाति.
४०२. द्वत्तिंसिमानीतिसुत्तं बोधिसत्तमेव सन्धाय वुत्तं. सो हि पच्छिमे भवे बुद्धो होति, इतरेसु चक्कवत्ती, तस्मा आभतम्पि अनाभतसदिसमेवाति.
लक्खणकथावण्णना.