२. अरियन्तिकथावण्णना
३५७. इदानि अरियन्तिकथा नाम होति. तत्थ येसं ‘‘न केवलं आसवक्खयञाणमेव अरियं, अथ खो पुरिमानिपि नव बलानि अरियानि’’च्चेव लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय अरियन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन यदि तं अरियं, मग्गादीसु तेन अञ्ञतरेन भवितब्बन्ति मग्गादिवसेन पुच्छा सकवादिस्स, पटिक्खेपो इतरस्स.
पुन सुञ्ञतारम्मणादिवसेन पुच्छा सकवादिस्स. तत्थ द्वे सुञ्ञता – सत्तसुञ्ञता च सङ्खारसुञ्ञता च. सत्तसुञ्ञता नाम दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञा पञ्चक्खन्धा. सङ्खारसुञ्ञता नाम सब्बसङ्खारेहि सुञ्ञं विवित्तं निस्सटं निब्बानं. तत्थ परवादी निब्बानारम्मणतं सन्धाय पटिक्खिपति, सङ्खारारम्मणतं सन्धाय पटिजानाति. मनसि करोतीति पुट्ठोपि निब्बानमेव सन्धाय पटिक्खिपति, सङ्खारे सन्धाय पटिजानाति. ततो सकवादिना ‘‘ठानाट्ठानादिमनसिकारो सङ्खारारम्मणो, सुञ्ञतमनसिकारो निब्बानारम्मणो’’ति इमं नयं गहेत्वा ‘‘द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होती’’ति पुट्ठो लेसोकासं अलभन्तो पटिक्खिपति. अनिमित्तापणिहितेसुपि एसेव नयो. सत्तनिमित्ताभावतो हि खन्धा अनिमित्ता. सङ्खारनिमित्ताभावतो निब्बानं. एकधम्मस्मिम्पि आरोपेत्वा ठपेतब्बसङ्खातेन च पणिदहितब्बट्ठेन पणिहितसङ्खं गतेन सत्तपणिधिना अप्पणिहिता खन्धा. तण्हापणिधिना तण्हाय वा आरम्मणभूतेन सब्बसङ्खारपणिधिना अप्पणिहितं निब्बानं. तस्मा इधापि पटिक्खेपो च पटिञ्ञा च पुरिमनयेनेव वेदितब्बा.
३५८. ततो ‘‘यथा सतिपट्ठानादयो लोकुत्तरधम्मा अरिया चेव सुञ्ञतादिआरम्मणा च, किं ते एवं ठानाट्ठानञाण’’न्ति अनुलोमपटिलोमपुच्छा होन्ति. तत्थ सब्बापि पटिञ्ञा सब्बे च पटिक्खेपा परवादिस्सेव. इमिनावुपायेन सेसञाणेसुपि पुच्छाविस्सज्जनं वेदितब्बं. पाळियं पन सेसानि सङ्खिपित्वा अवसाने चुतूपपातञाणमेव विभत्तं. ततो परं सकसमयेपि ‘‘अरिय’’न्ति सिद्धेन आसवानं खयञाणेन सद्धिं संसन्दित्वा सेसञाणानं अनुलोमतो च पटिलोमतो च अरियभावपुच्छा होन्ति. ता सब्बा परवादिस्स, पटिञ्ञा पटिक्खेपो च सकवादिस्स. ते उत्तानत्थायेव. पाळियं पनेत्थ पठमनवमानेव दस्सेत्वा सत्त ञाणानि सङ्खित्तानीति.
अरियन्तिकथावण्णना.