५. वचीभेदकथावण्णना

३२६. इदानि वचीभेदकथा नाम होति. तत्थ येसं ‘‘सोतापत्तिमग्गक्खणे पठमं झानं समापन्नस्स दुक्खन्ति वाचा भिज्जती’’ति लद्धि, सेय्यथापि एतरहि पुब्बसेलियादीनं; ते सन्धाय समापन्नस्स अत्थि वचीभेदोति पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्ञा परवादिस्स. पुन सब्बत्थाति तयो भवे सन्धाय पुट्ठो अरूपं सन्धाय पटिक्खिपति. सब्बदाति कालवसेन पुट्ठो पठममग्गक्खणे पठमज्झानिकसमापत्तितो अञ्ञं सब्बं समापत्तिकालं सन्धाय पटिक्खिपति. सब्बेसं समापन्नानन्ति पुट्ठो लोकियसमापत्तियो समापन्ने सन्धाय पटिक्खिपति. सब्बसमापत्तीसूति पुट्ठो दुतियज्झानादिकं लोकुत्तरं सब्बञ्च लोकियसमापत्तिं सन्धाय पटिक्खिपति.

कायभेदोति अभिक्कमादिवसेन पवत्तकायविञ्ञत्ति. इदं ‘‘यानि चित्तानि वचीविञ्ञत्तिं समुट्ठापेन्ति, तानेव कायविञ्ञत्तिं. एवं सन्ते कस्मा कायभेदोपि न होती’’ति चोदनत्थं पुच्छति. इतरो लद्धिवसेन पटिक्खिपति चेव पटिजानाति च. इदानि यदि सो मग्गक्खणे ‘‘दुक्ख’’न्ति वाचं भासति, ‘‘समुदयो’’तिआदिकम्पि भासेय्य. यदि वा तं न भासति, इतरम्पि न भासेय्याति चोदनत्थं दुक्खन्ति जानन्तोतिआदयो पञ्हा वुत्ता. इतरो पन अत्तनो लद्धिवसेनेव पटिजानाति चेव पटिक्खिपति च. लोकुत्तरं पठमज्झानं समापन्नो दुक्खदुक्खन्ति विपस्सतीति हिस्स लद्धि.

३२८. ञाणन्ति लोकुत्तरं चतुसच्चञाणं. सोतन्ति सोतविञ्ञाणं अधिप्पेतं, येन तं सद्दं सुणाति. द्विन्नं फस्सानन्ति सोतसम्फस्समनोसम्फस्सानं.

३२९. नो वत रे वत्तब्बेति यदि अविसेसेन यंकिञ्चि समापन्नस्स नत्थि वचीभेदो, न अविसेसेन वत्तब्बं ‘‘समापन्नस्स अत्थि वचीभेदो’’ति. सेसमेत्थ उत्तानत्थमेव सद्धिं सुत्तसाधनाय. यं पनेतेन ‘‘सिखिस्स आनन्द, भगवतो’’ति परियोसाने सुत्तं आभतं, तत्थ येन समापत्तिचित्तेन सो वचीभेदो समुट्ठितो, कायभेदोपि तेन समुट्ठातियेव, न च तं लोकुत्तरं पठमज्झानचित्तं, तस्मा असाधकन्ति.

वचीभेदकथावण्णना.