धम्मुद्देसवारकथा
पठमचित्तं
३६५. इदानि अकुसलधम्मपदं भाजेत्वा दस्सेतुं कतमे धम्मा अकुसलातिआदि आरद्धं. तत्थ धम्मववत्थानादिवारप्पभेदो च हेट्ठा आगतानं पदानं अत्थविनिच्छयो च हेट्ठा वुत्तनयेनेव वेदितब्बो. तत्थ तत्थ पन विसेसमत्तमेव वण्णयिस्साम. तत्थ समयववत्थाने ताव यस्मा, कुसलस्स विय, अकुसलस्स भूमिभेदो नत्थि, तस्मा एकन्तं कामावचरम्पि समानं एतं ‘कामावचर’न्ति न वुत्तं. दिट्ठिगतसम्पयुत्तन्ति एत्थ दिट्ठि एव दिट्ठिगतं ‘गूथगतं मुत्तगत’न्तिआदीनि (अ. नि. ९.११) विय. गन्तब्बाभावतो वा दिट्ठिया गतमत्तमेवेतन्तिपि दिट्ठिगतं. तेन सम्पयुत्तं दिट्ठिगतसम्पयुत्तं.
तत्थ असद्धम्मसवनं, अकल्याणमित्तता, अरियानं अदस्सनकामतादीनि अयोनिसो मनसिकारोति एवमादीहि कारणेहि इमस्स दिट्ठिगतसङ्खातस्स मिच्छादस्सनस्स उप्पत्ति वेदितब्बा. ये हि एते दिट्ठिवादपटिसंयुत्ता असद्धम्मा तेसं बहुमानपुब्बङ्गमेन अतिक्कन्तमज्झत्तेन उपपरिक्खारहितेन सवनेन, ये च दिट्ठिविपन्ना अकल्याणमित्ता तंसम्पवङ्कतासङ्खाताय अकल्याणमित्तताय, बुद्धादीनं अरियानञ्चेव सप्पुरिसानञ्च अदस्सनकामताय चतुसतिपट्ठानादिभेदे अरियधम्मे अकोविदत्तेन पातिमोक्खसंवरइन्द्रियसंवरसतिसंवरञाणसंवरपहानसंवरप्पभेदे अरियधम्मे चेव सप्पुरिसधम्मे च संवरभेदसङ्खातेन अविनयेन तेहेव कारणेहि परिभावितेन अयोनिसो मनसिकारेन कोतूहलमङ्गलादिपसुतताय च एतं उप्पज्जतीति वेदितब्बं. असङ्खारभावो पनस्स चित्तस्स हेट्ठा वुत्तनयेनेव वेदितब्बो.
धम्मुद्देसवारे फस्सोति अकुसलचित्तसहजातो फस्सो. वेदनादीसुपि एसेव नयो. इति अकुसलमत्तमेव एतेसं पुरिमेहि विसेसो.
चित्तस्सेकग्गता होतीति पाणातिपातादीसुपि अविक्खित्तभावेन चित्तस्स एकग्गता होति. मनुस्सा हि चित्तं समादहित्वा अविक्खित्ता हुत्वा अविरज्झमानानि सत्थानि पाणसरीरेसु निपातेन्ति, सुसमाहिता परेसं सन्तकं हरन्ति, एकरसेन चित्तेन मिच्छाचारं आपज्जन्ति. एवं अकुसलप्पवत्तियम्पि चित्तस्स एकग्गता होति.
मिच्छादिट्ठीति अयाथावदिट्ठि, विरज्झित्वा गहणतो वा वितथा दिट्ठि मिच्छादिट्ठि. अनत्थावहत्ता पण्डितेहि जिगुच्छिता दिट्ठीतिपि मिच्छादिट्ठि. मिच्छासङ्कप्पादीसुपि एसेव नयो. अपिच मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना; परमं वज्जन्ति दट्ठब्बा. मिच्छासङ्कप्पादीसु ‘मिच्छा’ति पदमत्तमेव विसेसो. सेसं कुसलाधिकारे वुत्तनयेनेव वेदितब्बं.
अहिरिकबलं अनोत्तप्पबलन्ति एत्थ बलत्थो निद्देसवारे आवि भविस्सति. इतरेसु पन – न हिरियतीति अहिरिको. अहिरिकस्स भावो अहिरिकं. न ओत्तप्पं अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा. अनोत्तप्पं तेहेव असारज्जनलक्खणं अनुत्तासनलक्खणं वा. अहिरिकमेव बलं अहिरिकबलं. अनोत्तप्पमेव बलं अनोत्तप्पबलं. अयमेत्थ सङ्खेपत्थो. वित्थारो पन हेट्ठा वुत्तपटिपक्खवसेन वेदितब्बो.
लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. तेसु लोभो आरम्मणग्गहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियधम्मेसु अस्साददस्सनपदट्ठानो. सो तण्हानदीभावेन वड्ढमानो, सीघसोता नदी विय महासमुद्दं, अपायमेव गहेत्वा गच्छतीति दट्ठब्बो.
मोहो चित्तस्स अन्धभावलक्खणो अञ्ञाणलक्खणो वा, असम्पटिवेधरसो आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो. सब्बाकुसलानं मूलन्ति दट्ठब्बो.
अभिज्झायन्ति ताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा. सा परसम्पत्तीनं सककरणइच्छालक्खणा, तेनाकारेन एसनभावरसा, परसम्पत्ति-अभिमुखभावपच्चुपट्ठाना, परसम्पत्तीसु अभिरतिपदट्ठाना. परसम्पत्तिअभिमुखा एव हि सा उपट्ठहति. तासु च अभिरतिया सति पवत्तति, परसम्पत्तीसु चेतसो हत्थप्पसारोवियाति दट्ठब्बा.
समथो होतीतिआदीसु अञ्ञेसु किच्चेसु विक्खेपसमनतो समथो. अकुसलप्पवत्तियं चित्तं पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.
इमस्मिं चित्ते सद्धा, सति, पञ्ञा, छ युगळकानीति इमे धम्मा न गहिता. कस्मा? अस्सद्धियचित्ते पसादो नाम नत्थि. तस्मा ताव सद्धा न गहिता. किं पन दिट्ठिगतिका अत्तनो अत्तनो सत्थारानं न सद्दहन्तीति? सद्दहन्ति. सा पन सद्धा नाम न होति, वचनसम्पटिच्छनमत्तमेवेतं. अत्थतो अनुपपरिक्खा वा होति, दिट्ठि वा. असतियचित्ते पन सति नत्थीति न गहिता. किं दिट्ठिगतिका अत्तना कतकम्मं न सरन्तीति? सरन्ति. सा पन सति नाम न होति. केवलं तेनाकारेन अकुसलचित्तप्पवत्ति. तस्मा सति न गहिता. अथ कस्मा ‘‘मिच्छासती’’ति (दी. नि. ३.३३३; सं. नि. ५.१) सुत्तन्ते वुत्ता? सा पन अकुसलक्खन्धानं सतिविरहितत्ता सतिपटिपक्खत्ता च मिच्छामग्गमिच्छत्तानं पूरणत्थं तत्थ परियायेन देसना कता. निप्परियायेन पनेसा नत्थि. तस्मा न गहिता. अन्धबालचित्ते पन पञ्ञा नत्थीति न गहिता. किं दिट्ठिगतिकानं वञ्चनापञ्ञा नत्थीति? अत्थि. न पनेसा पञ्ञा, माया नामेसा होति. सा अत्थतो तण्हाव. इदं पन चित्तं सदरथं गरुकं भारियं कक्खळं थद्धं अकम्मञ्ञं गिलानं वङ्कं कुटिलं. तस्मा पस्सद्धादीनि छ युगळकानि न गहितानि.
एत्तावता पदपटिपाटिया चित्तङ्गवसेन पाळिआरुळ्हानि द्वत्तिंस पदानि दस्सेत्वा इदानि येवापनकधम्मे दस्सेतुं ये वा पन तस्मिं समयेतिआदिमाह. तत्थ सब्बेसुपि अकुसलचित्तेसु छन्दो अधिमोक्खो मनसिकारो मानो इस्सा मच्छरियं थिनं मिद्धं उद्धच्चं कुक्कुच्चन्ति इमे दसेव येवापनका होन्ति धम्मा, सुत्तागता, सुत्तपदेसु दिस्सरेति वुत्ता. इमस्मिं पन चित्ते छन्दो अधिमोक्खो मनसिकारो उद्धच्चन्ति इमे अपण्णकङ्गसङ्खाता चत्तारोव येवापनका होन्ति.
तत्थ छन्दादयो हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हि ते कुसला, इमे अकुसला. इतरं पन उद्धतस्स भावो ‘उद्धच्चं’. तं चेतसो अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मा विय, चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठानं. चित्तविक्खेपोति दट्ठब्बं.
इति फस्सादीनि द्वत्तिंस, येवापनकवसेन वुत्तानि चत्तारीति सब्बानिपि इमस्मिं धम्मुद्देसवारे छत्तिंस धम्मपदानि भवन्ति. चत्तारि अपण्णकङ्गानि हापेत्वा पाळियं आगतानि द्वत्तिंसमेव. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तस्सेकग्गता वीरियिन्द्रियं जीवितिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभो मोहोति सोळस धम्मा होन्ति.
तेसु सोळससु सत्त धम्मा अविभत्तिका नव सविभत्तिका होन्ति. कतमे सत्त? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं मोहोति इमे सत्त अविभत्तिका. वेदना चित्तं वितक्को चित्तस्सेकग्गता वीरियिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे नव सविभत्तिका.
तेसु छ धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, एको चतूसु, एको छसु. कथं? चित्तं वितक्को मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे छ द्वीसु ठानेसु विभत्ता. तेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा मिच्छासङ्कप्पोति. मिच्छादिट्ठि मग्गङ्गेसुपि कम्मपथेसुपि मिच्छादिट्ठियेव. अहिरिकं बलानि पत्वा अहिरिकबलं होतीति वुत्तं, लोकनासकदुकं पत्वा अहिरिकन्ति. अनोत्तप्पेपि एसेव नयो. लोभो मूलं पत्वा लोभो होतीति वुत्तो. कम्मपथं पत्वा अभिज्झाति. इमे छ द्वीसु ठानेसु विभत्ता.
वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एकोव धम्मो तीसु ठानेसु विभत्तो.
वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा मिच्छावायामो होतीति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहो होतीति. एवं अयं एको धम्मो चतूसु ठानेसु विभत्तो.
समाधि पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा मिच्छासमाधीति, बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा दुतियदुके एककवसेनेव समथोति, ततिये अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.
सब्बेपि पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गङ्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकनासकवसेन पिट्ठिदुकवसेनाति नव रासयो होन्ति. तत्थ यं वत्तब्बं तं पठमकुसलचित्तनिद्देसे वुत्तमेवाति.
धम्मुद्देसवारकथा निट्ठिता.