अहेतुककुसलविपाको
४३१. इदानि अब्याकतपदं भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ चतुब्बिधं अब्याकतं – विपाकं किरियं रूपं निब्बानन्ति. तेसु विपाकाब्याकतं. विपाकाब्याकतेपि कुसलविपाकं. तस्मिम्पि परित्तविपाकं. तस्मिम्पि अहेतुकं. तस्मिम्पि पञ्चविञ्ञाणं. तस्मिम्पि द्वारपटिपाटिया चक्खुविञ्ञाणं. तस्सापि, ठपेत्वा द्वारारम्मणादिसाधारणपच्चयं, असाधारणकम्मपच्चयवसेनेव उप्पत्तिं दीपेतुं कामावचरस्स कुसलस्स कम्मस्स कतत्तातिआदि वुत्तं. तत्थ कतत्ताति कतकारणा. उपचितत्ताति आचितत्ता, वड्ढितकारणा. चक्खुविञ्ञाणन्ति कारणभूतस्स चक्खुस्स विञ्ञाणं, चक्खुतो वा पवत्तं, चक्खुस्मिं वा निस्सितं विञ्ञाणन्ति चक्खुविञ्ञाणं. परतो सोतविञ्ञाणादीसुपि एसेव नयो.
तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं, रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठानं. परतो आगतानि सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि सोतघानजिव्हाकायविञ्ञाणानि सद्दादिमत्तारम्मणरसानि, सद्दादिअभिमुखभावपच्चुपट्ठानानि, सद्दादिआरम्मणानं किरियमनोधातूनं अपगमपदट्ठानानि.
इध पदपटिपाटिया दस पदानि होन्ति. अग्गहितग्गहणेन सत्त. तेसु पञ्च अविभत्तिकानि, द्वे सविभत्तिकानि. तेसु चित्तं फस्सपञ्चकवसेन चेव इन्द्रियवसेन च द्वीसु ठानेसु विभत्तिं गच्छति, वेदना फस्सपञ्चकझानङ्गइन्द्रियवसेन तीसुयेव. रासयोपि इमेव तयो होन्ति. येवापनको एको मनसिकारो एव.
४३६. निद्देसवारे चक्खुविञ्ञाणं पण्डरन्ति वत्थुतो वुत्तं. कुसलञ्हि अत्तनो परिसुद्धताय पण्डरं नाम, अकुसलं भवङ्गनिस्सन्देन, विपाकं वत्थुपण्डरत्ता.
४३९. चित्तस्सेकग्गतानिद्देसे चित्तस्स ठितीति एकमेव पदं वुत्तं. इदम्पि हि दुब्बलं चित्तं पवत्तिट्ठितिमत्तमेवेत्थ लब्भति, ‘सण्ठितिअवट्ठिति’-भावं पापुणितुं न सक्कोति. सङ्गहवारे झानङ्गमग्गङ्गानि न उद्धटानि. कस्मा? वितक्कपच्छिमकञ्हि झानं नाम, हेतुपच्छिमको मग्गो नाम. पकतिया अवितक्कचित्ते झानङ्गं न लब्भति, अहेतुकचित्ते च मग्गङ्गानि. तस्मा इध उभयम्पि न उद्धटं. सङ्खारक्खन्धोपेत्थ चतुरङ्गिकोयेव भाजितो. सुञ्ञतवारो पाकतिकोयेव. सोतविञ्ञाणादिनिद्देसापि इमिनाव नयेन वेदितब्बा.
केवलञ्हि चक्खुविञ्ञाणादीसु ‘उपेक्खा’ भाजिता, कायविञ्ञाणे ‘सुख’न्ति, अयमेत्थ विसेसो. सोपि च घट्टनवसेन होतीति वेदितब्बो. चक्खुद्वारादीसु हि चतूसु उपादारूपमेव उपादारूपं घट्टेति, उपादारूपेयेव उपादारूपं घट्टेन्ते पटिघट्टनानिघंसो बलवा न होति. चतुन्नं अधिकरणीनं उपरि चत्तारो कप्पासपिचुपिण्डे ठपेत्वा पिचुपिण्डेहेव पहतकालो विय फुट्ठमत्तमेव होति. वेदना मज्झत्तट्ठाने तिट्ठति. कायद्वारे पन बहिद्धा महाभूतारम्मणं अज्झत्तिककायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति. यथा अधिकरणीमत्थके कप्पासपिचुपिण्डं ठपेत्वा कूटेन पहरन्तस्स कप्पासपिचुपिण्डं छिन्दित्वा कूटं अधिकरणिं गण्हतीति, निघंसो बलवा होति, एवमेव पटिघट्टनानिघंसो बलवा होति. इट्ठे आरम्मणे सुखसहगतं कायविञ्ञाणं उप्पज्जति, अनिट्ठे दुक्खसहगतं.
इमेसं पन पञ्चन्नं चित्तानं वत्थुद्वारारम्मणानि निबद्धानेव होन्ति, वत्थादिसङ्कमनं नामेत्थ नत्थि. कुसलविपाकचक्खुविञ्ञाणञ्हि चक्खुपसादं वत्थुं कत्वा इट्ठे च इट्ठमज्झत्ते च चतुसमुट्ठानिकरूपारम्मणे दस्सनकिच्चं साधयमानं चक्खुद्वारे ठत्वा विपच्चति. सोतविञ्ञाणादीनि सोतपसादादीनि वत्थुं कत्वा इट्ठइट्ठमज्झत्तेसु सद्दादीसु सवनघायनसायनफुसनकिच्चानि साधयमानानि सोतद्वारादीसु ठत्वा विपच्चन्ति. सद्दो पनेत्थ द्विसमुट्ठानिकोयेव होति.
४५५. मनोधातुनिद्देसे सभावसुञ्ञतनिस्सत्तट्ठेन मनोयेव धातु मनोधातु. सा चक्खुविञ्ञाणादीनं अनन्तरं रूपादिविजाननलक्खणा, रूपादीनं सम्पटिच्छनरसा, तथाभावपच्चुपट्ठाना, चक्खुविञ्ञाणादिअपगमपदट्ठाना. इध धम्मुद्देसे द्वादस पदानि होन्ति. अग्गहितग्गहणेन नव. तेसु सत्त अविभत्तिकानि द्वे सविभत्तिकानि. अधिमोक्खो मनसिकारोति द्वे येवापनका. वितक्कनिद्देसो अभिनिरोपनं पापेत्वा ठपितो. यस्मा पनेतं चित्तं नेव कुसलं नाकुसलं, तस्मा सम्मासङ्कप्पोति वा मिच्छासङ्कप्पोति वा न वुत्तं. सङ्गहवारे लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोते पतित्वा गतन्ति. मग्गङ्गं पन न लब्भतियेवाति न उद्धटं. सुञ्ञतवारो पाकतिकोयेव. इमस्स चित्तस्स वत्थु निबद्धं हदयवत्थुमेव होति. द्वारारम्मणानि अनिबद्धानि. तत्थ किञ्चापि द्वारारम्मणानि सङ्कमन्ति, ठानं पन एकं. सम्पटिच्छनकिच्चमेव हेतं होति. इदञ्हि पञ्चद्वारे पञ्चसु आरम्मणेसु सम्पटिच्छनं हुत्वा विपच्चति. कुसलविपाकेसु चक्खुविञ्ञाणादीसु निरुद्धेसु तंसमनन्तरा तानेव ठानप्पत्तानि रूपारम्मणादीनि सम्पटिच्छति.
४६९. मनोविञ्ञाणधातुनिद्देसेसु पठममनोविञ्ञाणधातुयं ‘पीति’पदं अधिकं. वेदनापि ‘सोमनस्स’-वेदना होति. अयञ्हि इट्ठारम्मणस्मिंयेव पवत्तति. दुतियमनोविञ्ञाणधातु इट्ठमज्झत्तारम्मणे. तस्मा तत्थ ‘उपेक्खा’ वेदना होतीति. पदानि मनोधातुनिद्देससदिसानेव. उभयत्थापि पञ्चविञ्ञाणसोते पतित्वा गतत्तायेव झानङ्गानि न उद्धटानि. मग्गङ्गानि अलाभतोयेव. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. लक्खणादितो पनेसा दुविधापि मनोविञ्ञाणधातु अहेतुकविपाका, छळारम्मणविजाननलक्खणा, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठानाति वेदितब्बा.
तत्थ पठमा द्वीसु ठानेसु विपच्चति. सा हि पञ्चद्वारे कुसलविपाकचक्खुविञ्ञाणादिअनन्तरं, विपाकमनोधातुया तं आरम्मणं सम्पटिच्छित्वा निरुद्धाय, तस्मिं येवारम्मणे सन्तीरणकिच्चं साधयमाना पञ्चसु द्वारेसु ठत्वा विपच्चति. छसु द्वारेसु पन बलवारम्मणे तदारम्मणा हुत्वा विपच्चति. कथं? यथा हि चण्डसोते, तिरियं नावाय गच्छन्तिया, उदकं छिज्जित्वा थोकं ठानं नावं अनुबन्धित्वा यथासोतमेव गच्छति, एवमेव छसु द्वारेसु बलवारम्मणे पलोभयमाने आपाथगते जवनं जवति. तस्मिं जविते भवङ्गस्स वारो. इदं पन चित्तं भवङ्गस्स वारं अदत्वा जवनेन गहितारम्मणं गहेत्वा एकं द्वे चित्तवारे पवत्तित्वा भवङ्गमेव ओतरति. गवक्खन्धे नदिं तरन्तेपि एवमेव उपमा वित्थारेतब्बा. एवमेसा यं जवनेन गहितारम्मणं तस्सेव गहितत्ता तदारम्मणं नाम हुत्वा विपच्चति.
दुतिया पन पञ्चसु ठानेसु विपच्चति. कथं? मनुस्सलोके ताव जच्चन्धजच्चबधिरजच्चएळजच्चुम्मत्तकउभतोब्यञ्जनकनपुंसकानं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चति. पटिसन्धिया वीतिवत्ताय यावतायुकं भवङ्गं हुत्वा विपच्चति. इट्ठमज्झत्ते पञ्चारम्मणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति इमेसु पञ्चसु ठानेसु विपच्चतीति.
मनोविञ्ञाणधातुद्वयं निट्ठितं.