१. सम्बाधसुत्तवण्णना
४२. पञ्चमस्स पठमे उदायीति काळुदायित्थेरो. अविद्वाति अञ्ञासि. भूरिमेधसोति महापञ्ञो. यो झानमबुज्झीति यो झानं अबुज्झि. पटिलीननिसभोति एकीभाववसेन पटिलीनो चेव उत्तमट्ठेन च निसभो. मुनीति बुद्धमुनि. परियायेनाति एकेन कारणेन. कामसम्बाधस्स हि अभावमत्तेनेव पठमज्झानं ओकासाधिगमो नाम, न सब्बथा सब्बं. तत्रापत्थि सम्बाधोति तस्मिम्पि पठमज्झाने सम्बाधो पटिपीळनं अत्थियेव. तत्रापित्थीतिपि पाठो. किञ्च तत्थ सम्बाधोति तस्मिं पन झाने किं सम्बाधो नाम. अयमेत्थ सम्बाधोति अयं वितक्कविचारानं अनिरुद्धभावो सम्बाधो संपीळा नाम. इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो. निप्परियायेनाति न एकेन कारणेन, अथ खो आसवक्खयो नाम सब्बसम्बाधानं पहीनत्ता सब्बेन सब्बं ओकासाधिगमो नामाति.