१०. तपुस्ससुत्तवण्णना
४१. दसमे मल्लेसूति मल्लरट्ठे. इधेव ताव त्वं, आनन्द, होतीति इध भगवा ‘‘तपुस्सगहपतिनो इध ठितेन आनन्देन सद्धिं कथासल्लापो भविस्सति, ततोनिदानं अहं महन्तं धम्मपरियायं देसेस्सामी’’ति ञत्वा आह. उपसङ्कमीति सो किर भुत्तपातरासो ‘‘दसबलस्स उपट्ठानं गमिस्सामी’’ति निक्खमन्तो दूरतोव थेरं दिस्वा येनायस्मा आनन्दो तेनुपसङ्कमि. पपातो विय खायति, यदिदं नेक्खम्मन्ति यमिदं पब्बज्जासङ्खातं नेक्खम्मं, तं अम्हाकं महापपातो विय ओगाहित्वा उपट्ठाति. नेक्खम्मे चित्तं पक्खन्दतीति पब्बज्जाय चित्तं आरम्मणवसेन पक्खन्दति, तदेव आरम्मणं कत्वा पसीदति, तदेव पतिट्ठाति, पच्चनीकधम्मेहि च विमुच्चति. ‘एतं सन्त’न्ति पस्सतोति एतं नेक्खम्मं सन्तं विगतदरथपरिळाहन्ति एवं पस्सन्तानं भिक्खूनं. बहुना जनेन विसभागोति तयिदं बहुना महाजनेन सद्धिं भिक्खूनं विसभागं, असदिसन्ति अत्थो.
कथापाभतन्ति कथामूलं. तस्स मय्हं, आनन्द, नेक्खम्मे चित्तं न पक्खन्दतीति तस्स एवं वितक्केन्तस्सापि मय्हं पब्बज्जाय चित्तं न ओतरति. ‘‘एतं सन्त’’न्ति पस्सतोति ‘‘साधु नेक्खम्म’’न्ति परिवितक्कनवसेन ‘‘एतं नेक्खम्मं सन्त’’न्ति पस्सन्तस्सपि. अनासेवितोति न आसेवितो न फस्सितो न सच्छिकतो. अधिगम्माति अधिगन्त्वा पत्वा सच्छिकत्वा. तमासेवेय्यन्ति तं आनिसंसं सेवेय्यं भजेय्यं. यं मेति येन कारणेन मय्हं. अधिगम्माति अधिगन्त्वा. स्वास्स मे होति आबाधोति सो मय्हं आबाधनट्ठेन आबाधो होति. अवितक्के चित्तं न पक्खन्दतीति अवितक्कविचारे दुतियज्झाने आरम्मणवसेन चित्तं न पक्खन्दति. वितक्केसूति वितक्कविचारेसु. सेसं सब्बत्थ उत्तानत्थमेवाति.
महावग्गो चतुत्थो.