९. नागसुत्तवण्णना

४०. नवमे आरञ्ञकस्साति अरञ्ञवासिनो. गोचरपसुतस्साति गोचरग्गहणत्थाय गच्छन्तस्स. हत्थिकलभाति महन्ता महन्ता नागा. हत्थिच्छापाति तरुणपोतका. ओभग्गोभग्गन्ति नामेत्वा नामेत्वा ठपितं. ओगाहं ओतिण्णस्साति ओगाहितब्बत्ता ओगाहन्ति लद्धनामं उदकतित्थं ओतिण्णस्स. ओगाहा उत्तिण्णस्साति उदकतित्थतो उत्तिण्णस्स. वूपकट्ठोति वूपकट्ठो हुत्वा. इदानि यस्मा दसबलस्स हत्थिनागेन किच्चं नत्थि, सासने पन तंसरिक्खकं पुग्गलं दस्सेतुं इदमाहटं, तस्मा तं पुग्गलं दस्सेन्तो एवमेव खोतिआदिमाह.