५-६. गण्डसुत्तादिवण्णना
१५-१६. पञ्चमे तीणि चत्तारि वस्सानि वस्सगणा, अनेके वस्सगणा उप्पन्ना अस्साति अनेकवस्सगणिको. तस्सस्सूति तस्स भवेय्युं. अभेदनमुखानीति न केनचि भिन्दित्वा कतानि, केवलं कम्मसमुट्ठितानेव वणमुखानि. जेगुच्छियंयेवाति जिगुच्छितब्बमेव पटिकूलमेव. चातुमहाभूतिकस्साति चतुमहाभूतमयस्स. ओदनकुम्मासूपचयस्साति ओदनेन चेव कुम्मासेन च उपचितस्स वड्ढितस्स. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्साति हुत्वा अभावट्ठेन अनिच्चधम्मस्स, दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मस्स, अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मस्स, दहरकाले वा ऊरूसु सयापेत्वा गब्भवासेन दुस्सण्ठितानं तेसं तेसं अङ्गपच्चङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मस्स, एवं परिहरितस्सापि च भेदनविद्धंसनधम्मस्स, भिज्जनविकिरणसभावस्सेवाति अत्थो. एत्थ च अनिच्चपदेन चेव भेदनविद्धंसनपदेहि चस्स अत्थङ्गमो कथितो, सेसेहि समुदयो. निब्बिन्दथाति उक्कण्ठथ पजहथ इमं कायन्ति दस्सेति. एवमिमस्मिं सुत्ते बलवविपस्सना कथिता. छट्ठं वुत्तनयमेव. सञ्ञासीसेन पनेत्थ ञाणमेव कथितं.