७-८. कुलसुत्तादिवण्णना
१७-१८. सत्तमे न मनापेन पच्चुट्ठेन्तीति मनवड्ढनेन मनं अल्लीयनाकारेन आसना वुट्ठाय पच्चुग्गमनं न करोन्ति. न मनापेन अभिवादेन्तीति न पञ्चपतिट्ठितेन वन्दन्ति. असक्कच्चं देन्तीति अचित्तीकारेन देन्ति. नो सक्कच्चन्ति सहत्था न देन्ति. न उपनिसीदन्ति धम्मसवनायाति ‘‘धम्मं सुणिस्सामा’’ति न समीपे निसीदन्ति. न सुस्सूसन्तीति घटपिट्ठे आसित्तउदकं विय विवट्टेत्वा गच्छति. अट्ठमे वेनेय्यज्झासयवसेन मेत्ताभावनं पक्खिपित्वा नवङ्गसमन्नागतोति वुत्तं.