४. समिद्धिसुत्तवण्णना

१४. चतुत्थे समिद्धीति अत्तभावसमिद्धताय एवंलद्धनामो थेरस्स सद्धिविहारिकत्थेरो. किमारम्मणाति किंपच्चया. सङ्कप्पवितक्काति सङ्कप्पभूता वितक्का. नामरूपारम्मणाति नामरूपपच्चया. इमिना चत्तारो अरूपक्खन्धा भूतुपादायरूपञ्च वितक्कानं पच्चयोति दस्सेति. क्व नानत्तं गच्छन्तीति कस्मिं ठाने नानासभावतं वेमत्तं गच्छन्ति. धातुसूति रूपधातुआदीसु. अञ्ञोयेव हि रूपवितक्को, अञ्ञे सद्दवितक्कादयोति. फस्ससमुदयाति सम्पयुत्तफस्सपच्चया. वेदनासमोसरणाति तिस्सो वेदना समोसरणा. एत्तकेन कुसलाकुसलमिस्सका कथिता. समाधिप्पमुखातिआदयो पन अपचयपक्खिकाति वेदितब्बा. तत्थ पुब्बङ्गमट्ठेन जेट्ठकट्ठेन वा समाधि पमुखं एतेसन्ति समाधिप्पमुखा. जेट्ठककारणट्ठेन सति अधिपतेय्या एतेसन्ति सताधिपतेय्या. मग्गपञ्ञा उत्तरा एतेसन्ति पञ्ञुत्तरा. फलविमुत्तिं पत्वा सारप्पत्ता होन्तीति विमुत्तिसारा. आरम्मणवसेन अमतं निब्बानं ओगाहित्वा तत्थ पतिट्ठिताति अमतोगधा. तेन च मा मञ्ञीति तेन विस्सज्जनेन ‘‘अहं अग्गसावकेन पुच्छिते पञ्हे विस्सज्जेसि’’न्ति मा मानं वा दप्पं वा अकासि.