७. दानसुत्तवण्णना
३७. सत्तमे वेळुकण्डकीति वेळुकण्डकनगरवासिनी. छळङ्गसमन्नागतन्ति छहि गुणङ्गेहि समन्नागतं. दक्खिणं पतिट्ठापेतीति दानं देति. पुब्बेव दाना सुमनोति दानं दस्सामीति मासड्ढमासतो पट्ठाय सोमनस्सप्पत्तो होति. एत्थ हि पुब्बेचेतना दस्सामीति चित्तुप्पादकालतो पट्ठाय ‘‘इतो उट्ठितेन दानं दस्सामी’’ति खेत्तग्गहणं आदिं कत्वा चिन्तेन्तस्स लब्भति. ददं चित्तं पसादेतीति एवं वुत्ता मुञ्चचेतना पन दानकालेयेव लब्भति. दत्वा अत्तमनो होतीति अयं पन अपरचेतना अपरापरं अनुस्सरन्तस्स लब्भति. वीतरागाति विगतरागा खीणासवा. रागविनयाय वा पटिपन्नाति रागविनयपटिपदं पटिपन्ना. उक्कट्ठदेसना चेसा, न केवलं पन खीणासवानं, अनागामि-सकदागामि-सोतापन्नानम्पि अन्तमसो तदहुपब्बजितस्स भण्डगाहकसामणेरस्सापि दिन्ना दक्खिणा छळङ्गसमन्नागताव होति. सोपि हि सोतापत्तिमग्गत्थमेव पब्बजितो.
यञ्ञस्स सम्पदाति दानस्स परिपुण्णता. सञ्ञताति सीलसञ्ञमेन सञ्ञता. सयं आचमयित्वानाति अत्तनाव हत्थपादे धोवित्वा मुखं विक्खालेत्वा. सकेहि पाणिभीति अत्तनो हत्थेहि. सयेहीतिपि पाठो. सद्धोति रतनत्तयगुणे सद्दहन्तो. मुत्तेन चेतसाति लाभमच्छरियादीहि विमुत्तेन चित्तेन. अब्यापज्झं सुखं लोकन्ति निद्दुक्खं उळारसुखसोमनस्सं देवलोकं.