८. दुतियसमयसुत्तवण्णना

२८. अट्ठमे मण्डलमाळेति भोजनसालाय. चारित्तकिलमथोति पिण्डपातचरियाय उप्पन्नकिलमथो. भत्तकिलमथोति भत्तदरथो. विहारपच्छायायन्ति विहारपच्चन्ते छायाय. यदेवस्स दिवा समाधिनिमित्तं मनसिकतं होतीति यं एव तस्स ततो पुरिमदिवसभागे समथनिमित्तं चित्ते कतं होति. तदेवस्स तस्मिं समये समुदाचरतीति तंयेव एतस्स तस्मिं समये दिवाविहारे निसिन्नस्स मनोद्वारे सञ्चरति. ओजट्ठायीति ओजाय ठितो पतिट्ठितो. फासुकस्स होतीति फासुकं अस्स होति. सम्मुखाति कथेन्तस्स सम्मुखट्ठाने. सुतन्ति सोतेन सुतं. पटिग्गहितन्ति चित्तेन पटिग्गहितं.