७. पठमसमयसुत्तवण्णना

२७. सत्तमे मनोभावनीयस्साति एत्थ मनं भावेति वड्ढेतीति मनोभावनीयो. दस्सनायाति दस्सनत्थं. निस्सरणन्ति निग्गमनं वूपसमनं. धम्मं देसेतीति कामरागप्पजहनत्थाय असुभकम्मट्ठानं कथेति. दुतियवारादीसु ब्यापादप्पहानाय मेत्ताकम्मट्ठानं, थिनमिद्धप्पहानाय थिनमिद्धविनोदनकम्मट्ठानं, आलोकसञ्ञं वा वीरियारम्भवत्थुआदीनं वा अञ्ञतरं, उद्धच्चकुक्कुच्चप्पहानाय समथकम्मट्ठानं, विचिकिच्छापहानाय तिण्णं रतनानं गुणकथं कथेन्तो धम्मं देसेतीति वेदितब्बो. आगम्माति आरब्भ. मनसिकरोतोति आरम्मणवसेन चित्ते करोन्तस्स. अनन्तरा आसवानं खयो होतीति अनन्तरायेन आसवानं खयो होति.