७. वस्ससुत्तवण्णना

१९७. सत्तमे नेमित्ताति निमित्तपाठका. तेजोधातु पकुप्पतीति महाअग्गिक्खन्धो उप्पज्जति. पाणिना उदकं सम्पटिच्छित्वाति उप्पन्नं उतुसमुट्ठानं उदकं तियोजनसतेन हत्थेन पटिग्गहेत्वा. पमत्ता होन्तीति अत्तनो कीळाय पमत्ता होन्ति विप्पवुट्ठसतिनो. तेसञ्हि सकाय रतिया ‘‘रमामा’’ति चित्ते उप्पन्ने अकालेपि देवो वस्सति, तदभावे न वस्सति. तं सन्धायेतं वुत्तं – ‘‘न कालवस्स’’न्ति. अट्ठमनवमानि उत्तानत्थानेव.