६. पीतिसुत्तवण्णना

१७६. छट्ठे किन्ति मयन्ति केन नाम उपायेन मयं. पविवेकं पीतिन्ति पठमदुतियज्झानानि निस्साय उप्पज्जनकपीतिं. कामूपसंहितन्ति कामनिस्सितं दुविधे कामे आरब्भ उप्पज्जनकं. अकुसलूपसंहितन्ति ‘‘मिगसूकरादयो विज्झिस्सामी’’ति सरं खिपित्वा तस्मिं विरद्धे ‘‘विरद्धं मया’’ति एवं अकुसले निस्साय उप्पज्जनकं. तादिसेसु पन ठानेसु अविरज्झन्तस्स ‘‘सुट्ठु मे विद्धं, सुट्ठु मे पहट’’न्ति उप्पज्जनकं अकुसलूपसंहितं सुखं सोमनस्सं नाम. दानादिउपकरणानं असम्पत्तिया उप्पज्जमानं पन कुसलूपसंहितं दुक्खं दोमनस्सन्ति वेदितब्बं.