५. चण्डालसुत्तवण्णना
१७५. पञ्चमे उपासकपतिकुट्ठोति उपासकपच्छिमको. कोतूहलमङ्गलिकोति ‘‘इमिना इदं भविस्सती’’ति एवं पवत्तत्ता कोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो. मङ्गलं पच्चेति नो कम्मन्ति मङ्गलं ओलोकेति, कम्मं न ओलोकेति. इतो च बहिद्धाति इमम्हा सासना बहिद्धा. पुब्बकारं करोतीति दानादिकं कुसलकिच्चं पठमतरं करोति.