९. खिप्पनिसन्तिसुत्तवण्णना

१६९. नवमे खिप्पं निसामयति उपधारेतीति खिप्पनिसन्ति. सुग्गहितं कत्वा गण्हातीति सुग्गहितग्गाही. अत्थकुसलोति अट्ठकथाय छेको. धम्मकुसलोति पाळियं छेको. निरुत्तिकुसलोति निरुत्तिवचनेसु छेको. ब्यञ्जनकुसलोति अक्खरप्पभेदे छेको. पुब्बापरकुसलोति अत्थपुब्बापरं, धम्मपुब्बापरं, अक्खरपुब्बापरं, ब्यञ्जनपुब्बापरं, अनुसन्धिपुब्बापरन्ति इमस्मिं पञ्चविधे पुब्बापरे छेको. तत्थ अत्थपुब्बापरकुसलोति हेट्ठा अत्थेन उपरि अत्थं जानाति, उपरि अत्थेन हेट्ठा अत्थं जानाति. कथं? सो हि हेट्ठा अत्थं ठपेत्वा उपरि अत्थे वुत्ते ‘‘हेट्ठा अत्थो अत्थी’’ति जानाति. उपरि अत्थं ठपेत्वा हेट्ठा अत्थे वुत्तेपि ‘‘उपरि अत्थो अत्थी’’ति जानाति. उभतो ठपेत्वा मज्झे अत्थे वुत्ते ‘‘उभतो अत्थो अत्थी’’ति जानाति. मज्झे अत्थं ठपेत्वा उभतोभागेसु अत्थे वुत्ते ‘‘मज्झे अत्थो अत्थी’’ति जानाति. धम्मपुब्बापरादीसुपि एसेव नयो. अनुसन्धिपुब्बापरे पन सीलं आदिं कत्वा आरद्धे सुत्तन्ते मत्थके छसु अभिञ्ञासु आगतासु ‘‘यथानुसन्धिं यथानुपरिच्छेदं सुत्तन्तो गतो’’ति जानाति. दिट्ठिवसेन आरद्धे उपरि सच्चेसु आगतेसुपि ‘‘यथानुसन्धिना गतो’’ति जानाति. कलहभण्डनवसेन आरद्धे उपरि सारणीयधम्मेसु आगतेसुपि, द्वत्तिंसतिरच्छानकथावसेन आरद्धे उपरि दसकथावत्थूसु (अ. नि. १०.६९; उदा.३१) आगतेसुपि ‘‘यथानुसन्धिना गतो’’ति जानातीति.