७. चोदनासुत्तवण्णना
१६७. सत्तमे चोदकेनाति वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासप्पटिक्खेपो सामीचिप्पटिक्खेपोति चतूहि चोदनावत्थूहि चोदयमानेन. कालेन वक्खामि नो अकालेनाति एत्थ चुदितकस्स कालो कथितो, न चोदकस्स. परं चोदेन्तेन हि परिसमज्झे वा उपोसथपवारणग्गे वा आसनसालाभोजनसालादीसु वा न चोदेतब्बो, दिवाट्ठाने निसिन्नकाले ‘‘करोतायस्मा ओकासं, अहं आयस्मन्तं वत्तुकामो’’ति एवं ओकासं कारेत्वा चोदेतब्बो. पुग्गलं पन उपपरिक्खित्वा यो लोलपुग्गलो अभूतं वत्वा भिक्खूनं अयसं आरोपेति, सो ओकासकम्मं विनापि चोदेतब्बो. भूतेनाति तच्छेन सभावेन. सण्हेनाति मट्ठेन मुदुकेन. अत्थसंहितेनाति अत्थकामताय हितकामताय उपेतेन. अविप्पटिसारो उपदहातब्बोति अमङ्कुभावो उपनेतब्बो. अलं ते अविप्पटिसारायाति युत्तं ते अमङ्कुभावाय. सेसमेत्थ उत्तानमेवाति. अट्ठमं हेट्ठा वुत्तनयत्ता पाकटमेव.