६. निरोधसुत्तवण्णना
१६६. छट्ठे अत्थेतं ठानन्ति अत्थि एतं कारणं. नो चे दिट्ठेव धम्मे अञ्ञं आराधेय्याति नो चे इमस्मिंयेव अत्तभावे अरहत्तं पापुणेय्य. कबळीकाराहारभक्खानं देवानन्ति कामावचरदेवानं. अञ्ञतरं मनोमयं कायन्ति झानमनेन निब्बत्तं अञ्ञतरं सुद्धावासब्रह्मकायं. उदायीति लाळुदायी. सो हि ‘‘मनोमय’’न्ति सुत्वा ‘‘आरुप्पे न भवितब्ब’’न्ति पटिबाहि. थेरो ‘‘सारिपुत्तो किं जानाति, यस्स सम्मुखा एवं भिक्खू वचनं पटिक्कोसन्ती’’ति एवं बालानं लद्धिउप्पत्तिपटिबाहनत्थं तं वचनं अनधिवासेत्वा येन भगवा तेनुपसङ्कमि.
अत्थि नामाति अमरिसनत्थे निपातो. तेनेव चेत्थ ‘‘अज्झुपेक्खिस्सथा’’ति अनागतवचनं कतं. अयञ्हेत्थत्थो – आनन्द, तुम्हे थेरं भिक्खुं विहेठियमानं अज्झुपेक्खथ, न वो एतं मरिसयामि न सहामि नाधिवासेमीति. कस्मा पन भगवा आनन्दथेरंयेव एवमाहाति? धम्मभण्डागारिकत्ता. धम्मभण्डागारिकस्स हि एवं वदन्तो पटिबाहितुं भारो. अपिचेस सारिपुत्तत्थेरस्स पियसहायो, तेनापिस्स एस भारो. तत्थ किञ्चापि भगवा आनन्दत्थेरं गरहन्तो एवमाह, न पनेसा तस्सेव गरहा, सम्मुखीभूतानं सब्बेसंयेव गरहाति वेदितब्बा. विहारन्ति गन्धकुटिं.
अनच्छरियन्ति न अच्छरियं. यथाति कारणवचनं. आयस्मन्तंयेवेत्थ उपवानं पटिभासेय्याति एत्थ भगवता च एवं एतदेव कारणं आरब्भ उदाहटे आयस्मतोयेव उपवानस्स पटिवचनं पटिभातु उपट्ठातूति दीपेति. सारज्जं ओक्कन्तन्ति दोमनस्सं अनुपविट्ठं. सीलवातिआदीहि खीणासवसीलादीनियेव कथितानि. खण्डिच्चेनातिआदीनि सक्कारादीनं कारणपुच्छावसेन वुत्तानि. किं खण्डिच्चादीहि कारणेहि तं तं सब्रह्मचारिं सक्करेय्युन्ति अयञ्हेत्थ अधिप्पायो.