८. अत्तन्तपसुत्तवण्णना

१९८. अट्ठमे अत्तन्तपादीसु अत्तानं तपति दुक्खापेतीति अत्तन्तपो. अत्तनो परितापनानुयोगं अत्तपरितापनानुयोगं. परं तपतीति परन्तपो. परेसं परितापनानुयोगं परपरितापनानुयोगं. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. निच्छातोति छातं वुच्चति तण्हा, सा अस्स नत्थीति निच्छातो. सब्बकिलेसानं निब्बुतत्ता निब्बुतो. अन्तो तापनकिलेसानं अभावा सीतलो जातोति सीतीभूतो. झानमग्गफलनिब्बानसुखानि पटिसंवेदेतीति सुखप्पटिसंवेदी. ब्रह्मभूतेन अत्तनाति सेट्ठभूतेन अत्तना.

अचेलकोतिआदीनि वुत्तत्थानेव. ओरब्भिकादीसु उरब्भा वुच्चन्ति एळका, उरब्भे हनतीति ओरब्भिको. सूकरिकादीसुपि एसेव नयो. लुद्दोति दारुणो कक्खळो. मच्छघातकोति मच्छबन्धो केवट्टो. बन्धनागारिकोति बन्धनागारगोपको. कुरूरकम्मन्ताति दारुणकम्मन्ता.

मुद्धावसित्तोति खत्तियाभिसेकेन मुद्धनि अभिसित्तो. पुरत्थिमेन नगरस्साति नगरतो पुरत्थिमाय दिसाय. सन्थागारन्ति यञ्ञसालं. खराजिनं निवासेत्वाति सखुरं अजिनचम्मं निवासेत्वा. सप्पितेलेनाति सप्पिना चेव तेलेन च. ठपेत्वा हि सप्पिं अवसेसो यो कोचि स्नेहो तेलन्ति वुच्चति. कण्डुवमानोति नखानं छिन्नत्ता कण्डुवितब्बकाले तेन कण्डुवमानो. अनन्तरहितायाति असन्थताय. सरूपवच्छायाति सदिसवच्छाय. सचे गावी सेता होति, वच्छोपि सेतकोव. सचे कपिला वा रत्ता वा, वच्छकोपि तादिसोवाति एवं सरूपवच्छाय. सो एवमाहाति सो राजा एवं वदेति. वच्छतराति तरुणवच्छकभावं अतिक्कन्ता बलववच्छा. वच्छतरीसुपि एसेव नयो. बरिहिसत्थायाति परिक्खेपकरणत्थाय चेव यञ्ञभूमियं अत्थरणत्थाय च.

चतुत्थपुग्गलं बुद्धुप्पादतो पट्ठाय दस्सेतुं इध, भिक्खवे, तथागतोतिआदिमाह. तत्थ तथागतोतिआदीनि वुत्तत्थानेव. तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति, गहपति, वाति कस्मा पठमं गहपतिं निद्दिसति? निहतमानत्ता उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति, हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा तादिसस्स मानस्स अभावतो निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता न बहुका, गहपतिकाव बहुका. इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.

अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मसामिम्हि तथागते ‘‘सम्मासम्बुद्धो वत भगवा’’ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजापथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तं. आगमनपथोतिपि वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न सज्जति न बज्झति. तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति. अपिच सम्बाधो घरावासो कुसलकिरियाय यथासुखं ओकासाभावतो, रजापथो असंवुतसङ्कारट्ठानं विय रजानं, किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो.

नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं. इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं. यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं.

अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. आबन्धनट्ठेन ञातियेव ञातिपरिवट्टो. सो वीसतिया हेट्ठा अप्पो नाम होति, वीसतिया पट्ठाय महा. भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो. समापन्नोति सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो.

पाणातिपातं पहायातिआदीनि वुत्तत्थानेव. इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. समग्गरामोतिपि पाळि, अयमेव अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्थ गन्तुं न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति.

नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा. ६५) एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी. पुरे संवड्ढनारी विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुजनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा.

काले वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकअत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती. हदये निधेतब्बयुत्तकं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अवेक्खित्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा, यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.

बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो.

एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि. तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति. तं सन्धाय वुत्तं ‘‘एकभत्तिको’’ति. रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरतो विकालभोजना.

जातरूपन्ति सुवण्णं. रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति. तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव तं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो.

आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सपि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनन्ति.

इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम, तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति. अजेळकादीसुपि खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापि-तळाकादीनिपि सङ्गहितानेव.

दूतेय्यं वुच्चति दूतकम्मं गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं. तस्मा दुतेय्यपहिणगमनानं अनुयोगोति एवमेत्थ अत्थो वेदितब्बो. कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु कूटन्ति वञ्चनं. तत्थ तुलाकूटं ताव रूपकूटं, अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे.

कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोति. ततो जनपदं गन्त्वा किञ्चिदेव अड्ढकुलं पविसित्वा ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छति.

मानकूटं नाम हदयभेद-सिखाभेद-रज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अत्तनो भाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति.

उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो ‘‘किं भो मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे भो मिगपोतकेनत्थो, मिगं मे देही’’ति आह. तेन हि द्वे कहापणे देहीति. सो आह – ‘‘ननु ते भो मया पठमं एको कहापणो दिन्नो’’ति? आम दिन्नोति. इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घनको मिगपोतको’’ति द्वे कहापणा भविस्सन्तीति. सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति. निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो. एतेसंयेव उक्कोटनादीनमेतं नामं. तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति, तं पन वञ्चनेनेव सङ्गहितं.

छेदनादीसु छेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया, गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो होति.

सो सन्तुट्ठो होतीति स्वायं भिक्खु हेट्ठा वुत्तेन चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति. इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति – तीणि चीवरानि, पत्तो, दन्तकट्ठच्छेदनवासि, एका सूचि, कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं –

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति.

ते सब्बे कायपरिहारिकापि होन्ति, कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति. चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले, खादितब्बफलाफलं गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति. पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति, आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति, उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति, पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं, उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपानकपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं. अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता.

नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रट्ठकपच्चत्थरणं वा कुञ्चिका वा वट्टति. दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति. एकादसपरिक्खारिकस्स कत्तरयट्ठि वा तेलनाळिका वा वट्टति. द्वादसपरिक्खारिकस्स छत्तं वा उपाहनं वा वट्टति. एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा महिच्छा महाभाराति न वत्तब्बा. एतेपि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव. भगवा पन न इमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि. सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायप्पटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति, पटिनिवत्तित्वा गहेतब्बं नामस्स न होति. इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा सन्तुट्ठो होति कायपरिहारिकेन चीवरेनातिआदिमाह.

तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति तं अट्ठपरिक्खारमत्तकं सब्बं गहेत्वाव कायप्पटिबद्धं कत्वाव गच्छति, ‘‘मम विहारो परिवेणं उपट्ठाको’’तिस्स सङ्गो वा बन्धो वा न होति. सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मत्तहत्थी विय इच्छितिच्छितं सेनासनं, वनसण्डं, रुक्खमूलं, नवं पब्भारं परिभुञ्जन्तो एको तिट्ठति, एको निसीदति, सब्बिरियापथेसु एको अदुतियो.

‘‘चातुद्दिसो अप्पटिघो च होति,

सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी,

एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२; चूळनि. खग्गविसाणसुत्तनिद्देसो १२८) –

एवं वण्णितं खग्गविसाणकप्पतं आपज्जति.

इदानि तमत्थं उपमाय साधेन्तो सेय्यथापीतिआदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. डेतीति उप्पतति. अयं पनेत्थ सङ्खेपत्थो – सकुणा नाम ‘‘असुकस्मिं पदेसे रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति, ‘‘इदं अज्जतनाय, इदं स्वातनाय भविस्सती’’ति नेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पक्खं वा पत्तं वा नखं वा तुण्डं वा ठपेन्ति, अथ खो तस्मिं रुक्खे अनपेक्खा हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खोयेव पक्कमति, समादायेव पक्कमति. अरियेनाति निद्दोसेन. अज्झत्तन्ति सके अत्तभावे. अनवज्जसुखन्ति निद्दोससुखं.

सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो. सेसपदेसुपि यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे (विसुद्धि. १.१५) वुत्तं. अब्यासेकसुखन्ति किलेसेहि अनासित्तसुखं, अविकिण्णसुखन्तिपि वुत्तं. इन्द्रियसंवरसुखं हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति.

सो अभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति. तत्थ अभिक्कन्तन्ति पुरतो गमनं. पटिक्कन्तन्ति पच्छागमनं.

सम्पजानकारी होतीति सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं सतिसम्पयुत्तानं सम्पजञ्ञानं वसेन सतिं उपट्ठपेत्वा ञाणेन परिच्छिन्दित्वायेव तानि अभिक्कन्तपटिक्कन्तानि करोति. सेसपदेसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारो पन इच्छन्तेन दीघनिकाये सामञ्ञफलवण्णनातो वा मज्झिमनिकाये सतिपट्ठानवण्णनातो वा गहेतब्बो.

सो इमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्थब्बतं आपज्जति. अरञ्ञे अधिवत्था देवता ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति. ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्ममकासी’’ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति. सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति. अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति. इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति.

तत्थ विवित्तन्ति सुञ्ञं, अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्त’’न्ति (विभ. ५२६) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं. मञ्चपीठानमेतं अधिवचनं. तेनाह – ‘‘सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि, भिसिपि, बिम्बोहनम्पि, विहारोपि, अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि, लेणम्पि, वेळुगुम्बोपि, रुक्खमूलम्पि, मण्डपोपि सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ. ५२७). अपिच विहारो, अड्ढयोगो, पासादो, हम्मियं, गुहाति इदं विहारसेनासनं नाम. मञ्चो, पीठं, भिसि, बिम्बोहनन्ति इदं मञ्चपीठसेनासनं नाम. चिमिलिका, चम्मखण्डो, तिणसन्थारो, पण्णसन्थारोति इदं सन्थतसेनासनं नाम. यत्थ वा पन भिक्खू पटिक्कमन्तीति एतं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति. तं सब्बम्पि सेनासनग्गहणेन गहितमेव.

इमस्स पन सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकं दस्सेन्तो अरञ्ञं रुक्खमूलन्तिआदिमाह. तत्थ अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) ‘‘इदं भिक्खुनीनं वसेन आगतं अरञ्ञं. ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) इदं पन इमस्स भिक्खुनो अनुरूपं. तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं. रुक्खमूलन्ति यंकिञ्चि सीतच्छायं विवित्तं रुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं उदकभिन्नं पब्बतपदेसं, यं नितम्बन्तिपि नदीनिकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञापेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि. १.३४) वुत्तं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवाह – ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि. अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति. तं सन्धायेतं वुत्तं.

पच्छाभत्तन्ति भत्तस्स पच्छतो. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमसरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु न उप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा. तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति – ‘परिमुखं सति’’’न्ति एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेन पनेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति.

अभिज्झं लोकेति एत्थ लुज्जन-पलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको. तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति, यथा नं सा मुञ्चति चेव मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पुरिमपकतिं पजहतीति ब्यापादो. विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयम्पेतं कोधस्सेव अधिवचनं. थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञं. थिनञ्च मिद्धञ्च थिनमिद्धं. आलोकसञ्ञीति रत्तिम्पि दिवापि दिट्ठआलोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारकत्ता वुत्तं. उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. ‘‘कथमिदं कथमिद’’न्ति एवं नप्पवत्ततीति अकथंकथी. कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु. ‘‘इमे नु खो कुसला, कथमिमे कुसला’’ति एवं न विचिकिच्छति न कङ्खतीति अत्थो. अयमेत्थ सङ्खेपो. इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं विसुद्धिमग्गे (विसुद्धि. १.७१-७२) वुत्तं. पञ्ञाय दुब्बलीकरणेति यस्मा इमे पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नापि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उच्छिन्दित्वा पातेन्ति. तस्मा पञ्ञाय दुब्बलीकरणाति वुच्चन्ति. विविच्चेव कामेहीतिआदीनि विसुद्धिमग्गे वित्थारितानि.

इमे आसवातिआदि अपरेनापि परियायेन चतुसच्चप्पकासनत्थं वुत्तं. नापरं इत्थत्तायाति पजानातीति एत्तावता हेट्ठा तीहि अङ्गेहि बाहिरसमयस्स निप्फलभावं दस्सेत्वा चतुत्थेन अङ्गेन अत्तनो सासनस्स गम्भीरभावं पकासेत्वा देसनाय अरहत्तेन कूटं गण्हि. इदानि देसनं अप्पेन्तो एवं खो, भिक्खवेतिआदिमाह.