४. सामुगियासुत्तवण्णना
१९४. चतुत्थे सामुगियाति सामुगनिगमवासिनो. ब्यग्घपज्जाति ते आलपन्तो एवमाह. कोलनगरस्स हि कोलरुक्खे हारेत्वा कतत्ता कोलनगरन्ति च ब्यग्घपथे मापितत्ता ब्यग्घपज्जन्ति च द्वे नामानि. एतेसञ्च पुब्बपुरिसा तत्थ वसिंसूति ब्यग्घपज्जवासिताय ब्यग्घपज्जवासिनो ब्यग्घपज्जाति वुच्चन्ति. ते आलपन्तो एवमाह. पारिसुद्धिपधानियङ्गानीति पारिसुद्धिअत्थाय पधानियङ्गानि पदहितब्बवीरियस्स अङ्गानि, कोट्ठासाति अत्थो. सीलपारिसुद्धिपधानियङ्गन्ति सीलपरिसोधनवीरियस्सेतं नामं. तञ्हि सीलपारिसुद्धिपरिपूरणत्थाय पधानियङ्गन्ति सीलपारिसुद्धिपधानियङ्गं. सेसेसुपि एसेव नयो. तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति तस्मिं तस्मिं ठाने विपस्सनापञ्ञाय अनुग्गहेस्सामि. यो तत्थ छन्दोतिआदीसु यो तस्मिं अनुग्गण्हने कत्तुकामताछन्दोति इमिना नयेन अत्थो वेदितब्बो. सतिसम्पजञ्ञं पनेत्थ सतिं उपट्ठपेत्वा ञाणेन परिच्छिन्दित्वा वीरियपग्गहनत्थं वुत्तं. रजनीयेसु धम्मेसु चित्तं विराजेतीति रागपच्चयेसु इट्ठारम्मणेसु यथा चित्तं विरज्जति, एवं करोति. विमोचनीयेसु धम्मेसु चित्तं विमोचेतीति येहि आरम्मणेहि चित्तं विमोचेतब्बं, तेसु यथा विमुच्चति, एवं करोति. विराजेत्वाति एत्थ मग्गक्खणे विराजेति नाम, फलक्खणे विरत्तं नाम होति. दुतियपदेपि एसेव नयो. सम्माविमुत्तिं फुसतीति हेतुना नयेन अरहत्तफलविमुत्तिं ञाणफस्सेन फुसतीति.