८. परिहानिसुत्तवण्णना

१५८. अट्ठमे गम्भीरेसूति अत्थगम्भीरेसु. ठानाठानेसूति कारणाकारणेसु. न कमतीति नावगाहति नप्पवत्तति. पञ्ञाचक्खूति एत्थ उग्गहपरिपुच्छापञ्ञापि वट्टति, सम्मसनप्पटिवेधपञ्ञापि वट्टतियेव.