३. ततियपण्णासकं

(११) १. वलाहकवग्गो

१-२. वलाहकसुत्तद्वयवण्णना

१०१-२. ततियपण्णासकस्स पठमे वलाहकाति मेघा. भासिता होति नो कत्ताति ‘‘इदञ्चिदञ्च करिस्सामी’’ति केवलं भासतियेव, न करोति. कत्ता होति नो भासिताति अकथेत्वाव ‘‘इदञ्चिदञ्च मया कातुं वट्टती’’ति कत्ता होति. एवं सब्बत्थ अत्थो वेदितब्बो. दुतियं उत्तानत्थमेव.

३. कुम्भसुत्तवण्णना

१०३. ततिये कुम्भाति घटा. तुच्छो पिहितोति रित्तको पिहितमुखो. पूरो विवटोति उदकपुण्णो अपारुतमुखो. सेसद्वयेपि एसेव नयो.

४. उदकरहदसुत्तवण्णना

१०४. चतुत्थे उत्तानो गम्भीरोभासोतिआदीसु पुराणपण्णरससम्भिन्नवण्णो काळउदको गम्भीरोभासो नाम, अच्छविप्पसन्नमणिवण्णउदको उत्तानोभासो नाम.

५-६. अम्बसुत्तवण्णना

१०५-६. पञ्चमे आमं पक्कवण्णीति आमकं हुत्वा ओलोकेन्तानं पक्कसदिसं खायति. एवं सब्बपदानि दट्ठब्बानि. छट्ठं उत्तानत्थमेव.

७. मूसिकसुत्तवण्णना

१०७. सत्तमे यो आवाटं खणति, न च तत्थ वसति, सो गाधं कत्ता नो वसिताति वुच्चति. खन्तातिपि पाठो. इमिना नयेन सब्बपदानि वेदितब्बानि.

८. बलीबद्दसुत्तवण्णना

१०८. अट्ठमे यो अत्तनो गोगणं मद्दति, न परगोगणं, अयं सगवचण्डो नो परगवचण्डोति एवं सब्बपदानि वेदितब्बानि. उब्बेजेता होतीति घट्टेत्वा विज्झित्वा उब्बेगपत्तं करोति.

९. रुक्खसुत्तवण्णना

१०९. नवमे फेग्गु फेग्गुपरिवारोति निस्सारो फेग्गुरुक्खो फेग्गुरुक्खेहेव परिवुतो. सारपरिवारोति खदिरादीहि साररुक्खेहेव परिवुतो. एस नयो सब्बत्थ.

१०. आसीविससुत्तवण्णना

११०. दसमे आगतविसो न घोरविसोति यस्स विसं आगच्छति, घोरं पन न होति, चिरकालं न पीळेति. सेसपदेसुपि एसेव नयोति.

वलाहकवग्गो पठमो.

(१२) २. केसिवग्गो

१. केसिसुत्तवण्णना

१११. दुतियस्स पठमे केसीति तस्स नामं. अस्सदम्मे सारेतीति अस्सदम्मसारथि. सण्हेनपि विनेतीतिआदीसु तस्स अनुच्छविकं सक्कारं कत्वा सुभोजनं भोजेत्वा मधुरपानं पायेत्वा मुदुवचनेन समुदाचरित्वा दमेन्तो सण्हेन दमेति नाम, जाणुबन्धनमुखबन्धनादीहि चेव पतोदविज्झनकसाभिघातफरुसवचनेहि च दमेन्तो फरुसेन दमेति नाम, कालेन कालं तदुभयं करोन्तो सण्हफरुसेन दमेति नाम.

२. जवसुत्तवण्णना

११२. दुतिये अज्जवेनाति उजुकभावेन. जवेनाति पदवेगेन. खन्तियाति अधिवासनक्खन्तिया. सोरच्चेनाति सुचिभावसीलेन. पुग्गलगुणङ्गेसु जवेनाति ञाणजवेन. सेसमेत्थ उत्तानत्थमेव.

३. पतोदसुत्तवण्णना

११३. ततिये पतोदच्छायन्ति विज्झनत्थं उक्खित्तस्स पतोदस्स छायं. संविज्जतीति ‘‘जवो मे गहेतब्बो’’ति सल्लक्खणवसेन संविज्जति. संवेगं आपज्जतीति संवेगं पटिपज्जति लोमवेधविद्धोति लोमकूपे पतोदवेधेन विद्धमत्तो. चम्मवेधविद्धोति छविचम्मं छिन्दन्तेन पतोदवेधेन विद्धो. अट्ठिवेधविद्धोति अट्ठिं भिन्दन्तेन वेधेन विद्धो. कायेनाति नामकायेन. परमसच्चन्ति निब्बानं. सच्छिकरोतीति पस्सति. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय.

४. नागसुत्तवण्णना

११४. चतुत्थे अट्ठिं कत्वाति अट्ठिको हुत्वा. तिणवनिन्नादसद्दानन्ति एत्थ तिणवोति डिण्डिमो, निन्नादसद्दोति सब्बेसम्पि एकतोमिस्सितो महासद्दो. डंसादीसु डंसाति पिङ्गलमक्खिका, मकसा मकसाव. खिप्पञ्ञेव गन्ता होतीति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनानि पूरेत्वा सीघमेव गन्ता होति.

५. ठानसुत्तवण्णना

११५. पञ्चमे ठानानीति कारणानि. अनत्थाय संवत्ततीति अहिताय अवड्ढिया संवत्तति. एत्थ च पठमं ओपातक्खणनमच्छबन्धनसन्धिच्छेदनादिभेदं सदुक्खं सविघातं पापकम्मं वेदितब्बं, दुतियं समजीविकानं गिहीनं पुप्फच्छड्डकादिकम्मं सुधाकोट्टन-गेहच्छादनअसुचिट्ठानसम्मज्जनादिकम्मञ्च वेदितब्बं, ततियं सुरापानगन्धविलेपनमालापिळन्धनादिकम्मञ्चेव अस्सादवसेन पवत्तं पाणातिपातादिकम्मञ्च वेदितब्बं, चतुत्थं धम्मस्सवनत्थाय गमनकाले सुद्धवत्थच्छादन-मालागन्धादीनं आदाय गमनं चेतियवन्दनं बोधिवन्दनं मधुरधम्मकथासवनं पञ्चसीलसमादानन्ति एवमादीसु सोमनस्ससम्पयुत्तं कुसलकम्मं वेदितब्बं. पुरिसथामेति पुरिसस्स ञाणथामस्मिं. सेसद्वयेपि एसेव नयो.

६. अप्पमादसुत्तवण्णना

११६. छट्ठे यतो खोति यदा खो. सम्परायिकस्साति देसनामत्तमेतं, खीणासवो पन नेव सम्परायिकस्स, न दिट्ठधम्मिकस्स मरणस्स भायति. सोव इध अधिप्पेतो. केचि पन ‘‘सम्मादिट्ठि भाविताति वचनतो सोतापन्नं आदिं कत्वा सब्बेपि अरिया अधिप्पेता’’ति वदन्ति.

७. आरक्खसुत्तवण्णना

११७. सत्तमे अत्तरूपेनाति अत्तनो अनुरूपेन अनुच्छविकेन, हितकामेनाति अत्थो. रजनीयेसूति रागस्स पच्चयभूतेसु. धम्मेसूति सभावेसु, इट्ठारम्मणेसूति अत्थो. एवं सब्बत्थ नयो वेदितब्बो. न रज्जतीति दिट्ठिवसेन न रज्जति. सेसपदेसुपि एसेव नयो. न च पन समणवचनहेतुपि गच्छतीति समणानं परवादीनं वचनहेतुपि अत्तनो दिट्ठिं पहाय तेसं दिट्ठिवसेन न गच्छतीति अत्थो. इधापि खीणासवोव अधिप्पेतो.

८-१०. संवेजनीयादिसुत्तत्तयवण्णना

११८-१२०. अट्ठमे दस्सनीयानीति पस्सितब्बयुत्तकानि. संवेजनीयानीति संवेगजनकानि. नवमे जातिभयन्ति जातिं आरब्भ उप्पज्जनकभयं. सेसपदेसुपि एसेव नयो. दसमे अग्गिभयन्ति अग्गिं पटिच्च उप्पज्जनकभयं. सेसपदेसुपि एसेव नयो.

केसिवग्गो दुतियो.

(१३) ३. भयवग्गो

१. अत्तानुवादसुत्तवण्णना

१२१. ततियस्स पठमे अत्तानुवादभयन्ति अत्तानं अनुवदन्तस्स उप्पज्जनकभयं. परानुवादभयन्ति परस्स अनुवादतो उप्पज्जनकभयं. दण्डभयन्ति द्वत्तिंस कम्मकारणा पटिच्च उप्पज्जनकभयं. दुग्गतिभयन्ति चत्तारो अपाये पटिच्च उप्पज्जनकभयं. इदं वुच्चति, भिक्खवे, अत्तानुवादभयन्तिआदीसु अत्तानुवादभयं ताव पच्चवेक्खन्तस्स अज्झत्तं हिरी समुट्ठाति, सास्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति. सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति. परानुवादभयं पन पच्चवेक्खन्तस्स बहिद्धा ओत्तप्पं समुट्ठाति, तदस्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति. सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति. दुग्गतिभयं पच्चवेक्खन्तस्स अज्झत्तं हिरी समुट्ठाति, सास्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति. सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति.

२. ऊमिभयसुत्तवण्णना

१२२. दुतिये उदकोरोहन्तस्साति उदकं ओतरन्तस्स. पाटिकङ्खितब्बानीति इच्छितब्बानि. सुसुकाभयन्ति चण्डमच्छभयं. मुखावरणं मञ्ञे करोन्तीति मुखपिदहनं विय करोन्ति. ओदरिकत्तस्साति महोदरताय महग्घसभावस्स. अरक्खितेनेव कायेनातिआदीसु कायद्वारे तिविधस्स संवरस्स अभावतो अरक्खितेन कायेन. वचीद्वारे चतुब्बिधस्स संवरस्स अभावतो अरक्खिताय वाचाय.

३. पठमनानाकरणसुत्तवण्णना

१२३. ततिये तदस्सादेतीति तं झानं सुखस्सादेन अस्सादेति. निकामेतीति पत्थेति. वित्तिं आपज्जतीति तुट्ठिं आपज्जति. तदधिमुत्तोति तस्मिं अधिमुत्तो, तं वा अधिमुत्तो. तब्बहुलविहारीति तेन झानेन बहुलं विहरन्तो. सहब्यतं उपपज्जतीति सहभावं गच्छति, तत्थ निब्बत्ततीति अत्थो. कप्पो आयुप्पमाणन्ति एत्थ पठमज्झानं अत्थि हीनं, अत्थि मज्झिमं, अत्थि पणीतं. तत्थ हीनेन उप्पन्नानं कप्पस्स ततियो कोट्ठासो आयुप्पमाणं, मज्झिमेन उपड्ढकप्पो, पणीतेन कप्पो. तं सन्धायेतं वुत्तं. निरयम्पि गच्छतीति निरयगमनीयस्स कम्मस्स अप्पहीनत्ता अपरापरं गच्छति, न अनन्तरमेव. तस्मिंयेव भवे परिनिब्बायतीति तस्मिंयेव रूपभवे ठत्वा परिनिब्बायति, न हेट्ठा ओतरति. यदिदं गतिया उपपत्तिया सतीति यं इदं गतिया च उपपत्तिया च सति सेखस्स अरियसावकस्स पटिसन्धिवसेन हेट्ठा अनोतरित्वा तस्मिंयेव रूपभवे उपरि दुतियततियादीसु अञ्ञतरस्मिं ब्रह्मलोके परिनिब्बानं, पुथुज्जनस्स पन निरयादिगमनं, इदं नानाकरणन्ति अत्थो.

द्वे कप्पाति एत्थापि दुतियज्झानं वुत्तनयेनेव तिविधं होति. तत्थ पणीतभावनेन निब्बत्तानं अट्ठकप्पा आयुप्पमाणं, मज्झिमेन चत्तारो, हीनेन द्वे. तं सन्धायेतं वुत्तं. चत्तारो कप्पाति एत्थ यं हेट्ठा वुत्तं ‘‘कप्पो, द्वे कप्पा’’ति, तम्पि आहरित्वा अत्थो वेदितब्बो. कप्पोति च गुणस्सपि नामं, तस्मा कप्पो द्वे कप्पा चत्तारो कप्पाति अयमेत्थ अत्थो दट्ठब्बो. इदं वुत्तं होति – यो पठमं वुत्तो कप्पो, सो द्वे वारे गणेत्वा एकेन गुणेन द्वे कप्पा होन्ति, दुतियेन चत्तारो, पुन ते चत्तारो कप्पाति इमेहि चतूहि गुणेहि गुणिता एकेन गुणेन अट्ठ होन्ति, दुतियेन सोळस, ततियेन द्वत्तिंस, चतुत्थेन चतुसट्ठीति. एवमिध पणीतज्झानवसेन चतुसट्ठि कप्पा गहिताति वेदितब्बा. पञ्च कप्पसतानीति इदं पणीतस्सेव उपपत्तिज्झानस्स वसेन वुत्तं. वेहप्फलेसु वा पठमज्झानभूमिआदीसु विय तिण्णं ब्रह्मलोकानं अभावतो एत्तकमेव आयुप्पमाणं. तस्मा एवं वुत्तं.

४. दुतियनानाकरणसुत्तवण्णना

१२४. चतुत्थे रूपमेव रूपगतं. सेसपदेसुपि एसेव नयो. अनिच्चतोतिआदीसु हुत्वा अभावट्ठेन अनिच्चतो, आबाधट्ठेन रोगतो, अन्तो पदुस्सनट्ठेन गण्डतो, अनुपविट्ठट्ठेन सल्लतो, सदुक्खट्ठेन अघतो, सम्पीळनट्ठेन आबाधतो, अविधेय्यट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, निस्सत्तट्ठेन सुञ्ञतो, अवसवत्तनट्ठेन अनत्ततो. एत्थ च ‘‘अनिच्चतो पलोकतो’’ति द्वीहि पदेहि अनिच्चलक्खणं कथितं, ‘‘सुञ्ञतो अनत्ततो’’ति द्वीहि अनत्तलक्खणं, सेसेहि दुक्खलक्खणं कथितन्ति वेदितब्बं. समनुपस्सतीति ञाणेन पस्सति. एवं पञ्चक्खन्धे तिलक्खणं आरोपेत्वा पस्सन्तो तयो मग्गे तीणि फलानि सच्छिकरोति. सुद्धावासानं देवानं सहब्यतं उपपज्जतीति तत्थ ठितो चतुत्थज्झानं भावेत्वा उपपज्जति.

५-६. मेत्तासुत्तद्वयवण्णना

१२५-१२६. पञ्चमे पठमज्झानवसेन मेत्ता, दुतियादिवसेन करुणादयो दस्सिता. छट्ठं चतुत्थे वुत्तनयेनेव वेदितब्बं.

७. पठमतथागतअच्छरियसुत्तवण्णना

१२७. सत्तमे पातुभावाति पातुभावेन. कुच्छिं ओक्कमतीति एत्थ कुच्छिं ओक्कन्तो होतीति अत्थो. ओक्कन्ते हि तस्मिं एवं होति, न ओक्कममाने. अप्पमाणोति वुड्ढिप्पमाणो, विपुलोति अत्थो. उळारोति तस्सेव वेवचनं. देवानं देवानुभावन्ति एत्थ देवानं अयमानुभावो – निवत्थवत्थस्स पभा द्वादस योजनानि फरति, तथा सरीरस्स, तथा विमानस्स, तं अतिक्कमित्वाति अत्थो. लोकन्तरिकाति तिण्णं तिण्णं चक्कवाळानं अन्तरा एकेको लोकन्तरिको होति, तिण्णं सकटचक्कानं पत्तानं वा अञ्ञमञ्ञं आहच्च ठपितानं मज्झे ओकासो विय. सो पन लोकन्तरिकनिरयो परिमाणतो अट्ठयोजनसहस्सप्पमाणो होति. अघाति निच्चविवटा. असंवुताति हेट्ठापि अप्पतिट्ठा. अन्धकाराति तमभूता. अन्धकारतिमिसाति चक्खुविञ्ञाणुप्पत्तिनिवारणतो अन्धभावकरणतिमिसाय समन्नागता. तत्थ किर चक्खुविञ्ञाणं न जायति. एवंमहिद्धिकानन्ति चन्दिमसूरिया किर एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ति, एवंमहिद्धिका. एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति, एवंमहानुभावा. आभा नानुभोन्तीति पभा नप्पहोन्ति. ते किर चक्कवाळपब्बतस्स वेमज्झेन चरन्ति चक्कवाळपब्बतञ्च अतिक्कमित्वा लोकन्तरनिरया. तस्मा तेसं तत्थ आभा नप्पहोन्ति.

येपि तत्थ सत्ताति येपि तस्मिं लोकन्तरमहानिरये सत्ता उपपन्ना. किं पन कम्मं कत्वा तत्थ उप्पज्जन्तीति? भारियं दारुणं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं, अञ्ञञ्च दिवसे दिवसे पाणवधादिसाहसिककम्मं कत्वा उप्पज्जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय. तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति. ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपब्बतपादे लग्गन्ति. यदा संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासगता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना तत्थ ब्यावटा विपरिवत्तित्वा लोकसन्धारकउदके पतन्ति, वाते पहरन्तेपि मधुकफलानि विय छिज्जित्वा उदके पतन्ति, पतितमत्ताव अच्चन्तखारे उदके पिट्ठपिण्डि विय विलीयन्ति. अञ्ञेपि किर भो सन्ति सत्ताति भो यथा मयं महादुक्खं अनुभवाम, एवं अञ्ञेपि किर सत्ता इदं दुक्खं अनुभवनत्थाय इधूपपन्नाति तंदिवसं पस्सन्ति. अयं पन ओभासो एकयागुपानमत्तम्पि न तिट्ठति. यावता निद्दायित्वा पबुद्धो आरम्मणं विभावेति, तत्तकं कालं होति. दीघभाणका पन ‘‘अच्छरासङ्घातमत्तमेव विज्जुओभासो विय निच्छरित्वा किं इदन्ति भणन्तानंयेव अन्तरधायती’’ति वदन्ति.

८. दुतियतथागतअच्छरियसुत्तवण्णना

१२८. अट्ठमे तण्हादिट्ठीहि अल्लीयितब्बट्ठेन आलयोति पञ्च कामगुणा, सकलमेव वा वट्टं. आरमन्ति एत्थाति आरामो, आलयो आरामो एतिस्साति आलयारामा. आलये रताति आलयरता. आलये सम्मुदिताति आलयसम्मुदिता. अनालये धम्मेति आलयपटिपक्खे विवट्टूपनिस्सिते अरियधम्मे. सुस्सूसतीति सोतुकामो होति. सोतं ओदहतीति सोतं ठपेति. अञ्ञा चित्तं उपट्ठपेतीति आजाननत्थाय चित्तं पच्चुपट्ठपेति. मानोति मञ्ञना, मञ्ञितब्बट्ठेन वा सकलं वट्टमेव. मानविनये धम्मेति मानविनयधम्मे. उपसमपटिपक्खो अनुपसमो, अनुपसन्तट्ठेन वा वट्टमेव अनुपसमो नाम. ओपसमिकेति उपसमकरे विवट्टूपनिस्सिते. अविज्जाय गता समन्नागताति अविज्जागता. अविज्जण्डकोसेन परियोनद्धत्ता अण्डं विय भूताति अण्डभूता. समन्ततो ओनद्धाति परियोनद्धा. अविज्जाविनयेति अविज्जाविनयो वुच्चति अरहत्तं, तंनिस्सिते धम्मे देसियमानेति अत्थो. इति इमस्मिं सुत्ते चतूसु ठानेसु वट्टं, चतूसु विवट्टं कथितं.

९. आनन्दअच्छरियसुत्तवण्णना

१२९. नवमे भिक्खुपरिसा आनन्दं दस्सनायाति ये भगवन्तं पस्सितुकामा थेरं उपसङ्कमन्ति, ये वा ‘‘आयस्मा किरानन्दो समन्तपासादिको अभिरूपो दस्सनीयो बहुस्सुतो सङ्घसोभनो’’ति थेरस्स गुणे सुत्वा आगच्छन्ति, ते सन्धाय ‘‘भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमती’’ति वुत्तं. एस नयो सब्बत्थ. अत्तमनाति ‘‘सवनेन नो दस्सनं समेती’’ति सकमना तुट्ठचित्ता. धम्मन्ति ‘‘कच्चि, आवुसो, खमनीयं, कच्चि यापनीयं, कच्चि योनिसोमनसिकारकम्मं करोथ, आचरियुपज्झायवत्तं पूरेथा’’ति एवरूपं पटिसन्थारधम्मं. तत्थ भिक्खुनीसु ‘‘कच्चि, भगिनियो, अट्ठ गरुधम्मे समादाय वत्तथा’’ति इदम्पि नानाकरणं होति. उपासकेसु ‘‘स्वागतं, उपासक, न ते किञ्चि सीसं वा अङ्गं वा रुज्जति, अरोगा ते पुत्तभातरो’’ति न एवं पटिसन्थारं करोति, एवं पन करोति – ‘‘कथं, उपासका, तीणि सरणानि पञ्च सीलानि रक्खथ, मासस्स अट्ठ उपोसथे करोथ, मातापितूनं उपट्ठानवत्तं पूरेथ, धम्मिकसमणब्राह्मणे पटिजग्गथा’’ति. उपासिकासुपि एसेव नयो.

१०. चक्कवत्तिअच्छरियसुत्तवण्णना

१३०. दसमे खत्तियपरिसाति अभिसित्ता अनभिसित्ता च खत्तिया. ते हि किर ‘‘राजा चक्कवत्ती नाम अभिरूपो पासादिको होति, आकासेन विचरन्तो रज्जं अनुसासति, धम्मिको धम्मराजा’’ति तस्स गुणकथं सुत्वा सवनेन दस्सनम्हि समेन्ते अत्तमना होन्ति. भासतीति ‘‘कथं, ताता, राजधम्मं पूरेथ, पवेणिं रक्खथा’’ति पटिसन्थारं करोति. ब्राह्मणेसु पन ‘‘कथञ्च, आचरिया, मन्ते वाचेथ, अन्तेवासिका मन्ते गण्हन्ति, दक्खिणं वा वत्थानि वा सीलं वा लभथा’’ति एवं पटिसन्थारं करोति. गहपतीसु ‘‘कथं, ताता, न वो राजकुलतो दण्डेन वा बन्धनेन वा पीळा अत्थि, सम्मा देवो धारं अनुप्पवेच्छति, सस्सानि सम्पज्जन्ती’’ति एवं पटिसन्थारं करोति. समणेसु ‘‘कथं, भन्ते, कच्चि पब्बजितपरिक्खारा सुलभा, समणधम्मे नप्पमज्जथा’’ति एवं पटिसन्थारं करोतीति.

भयवग्गो ततियो.

(१४) ४. पुग्गलवग्गो

१. संयोजनसुत्तवण्णना

१३१. चतुत्थस्स पठमे उपपत्तिपटिलाभियानीति येहि अनन्तरा उपपत्तिं पटिलभति. भवपटिलाभियानीति उपपत्तिभवस्स पटिलाभाय पच्चयानि. सकदागामिस्साति इदं अप्पहीनसंयोजनेसु अरियेसु उत्तमकोटिया गहितं. यस्मा पन अन्तरापरिनिब्बायिस्स अन्तरा उपपत्ति नत्थि, यं पन सो तत्थ झानं समापज्जति, तं कुसलत्ता ‘‘उपपत्तिभवस्स पच्चयो’’ तेव सङ्ख्यं गच्छति. तस्मास्स ‘‘उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानी’’ति वुत्तं. ओरम्भागियेसु च अप्पहीनं उपादाय सकदागामिस्स अविसेसेन ‘‘ओरम्भागियानि संयोजनानि अप्पहीनानी’’ति वुत्तं. सेसमेत्थ उत्तानमेव.

२. पटिभानसुत्तवण्णना

१३२. दुतिये युत्तप्पटिभानो नो मुत्तप्पटिभानोति पञ्हं कथेन्तो युत्तमेव कथेति, सीघं पन न कथेति, सणिकमेव कथेतीति अत्थो. इमिना नयेन सब्बपदानि वेदितब्बानि.

३. उग्घटितञ्ञूसुत्तवण्णना

१३३. ततिये चतुन्नम्पि पुग्गलानं इमिना सुत्तेन विसेसो वेदितब्बो –

‘‘कतमो च पुग्गलो उग्घटितञ्ञू, यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. कतमो च पुग्गलो विपञ्चितञ्ञू, यस्स पुग्गलस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. कतमो च पुग्गलो नेय्यो, यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसोमनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. कतमो च पुग्गलो पदपरमो, यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो’’ति (पु. प. १४८-१५१).

४. उट्ठानफलसुत्तवण्णना

१३४. चतुत्थे उट्ठानवीरियेनेव दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेति, तं पन उट्ठानं आगम्म किञ्चि पुञ्ञफलं नप्पटिलभति, अयं उट्ठानफलूपजीवी न कम्मफलूपजीवी नाम. चातुमहाराजिके पन देवे आदिं कत्वा सब्बेपि देवा उट्ठानवीरियेन विना पुञ्ञफलस्सेव उपजीवनतो कम्मफलूपजीविनो न उट्ठानफलूपजीविनो नाम. राजराजमहामत्तादयो उट्ठानफलूपजीविनो च कम्मफलूपजीविनो च. नेरयिकसत्ता नेव उट्ठानफलूपजीविनो न कम्मफलूपजीविनो. इमस्मिं सुत्ते पुञ्ञफलमेव कम्मफलन्ति अधिप्पेतं, तञ्च तेसं नत्थि.

५. सावज्जसुत्तवण्णना

१३५. पञ्चमे पठमो अन्धबालपुथुज्जनो, दुतियो अन्तरन्तरा कुसलकारको लोकियपुथुज्जनो, ततियो सोतापन्नो, सकदागामिअनागामिनोपि एतेनेव सङ्गहिता. चतुत्थो खीणासवो. सो हि एकन्तेनेव अनवज्जो.

६-७. सीलसुत्तादिवण्णना

१३६-१३७. छट्ठे पठमो लोकियमहाजनो, दुतियो सुक्खविपस्सको सोतापन्नो च सकदागामी च, ततियो अनागामी. सो हि यस्मा तङ्खणिकम्पि उपपत्तिनिमित्तकं झानं पटिलभतियेव, तस्मा सुक्खविपस्सकोपि समाधिस्मिं परिपूरकारीयेव. चतुत्थो खीणासवोयेव. सो हि सब्बेसं सीलादिपच्चनीकानं पहीनत्ता सब्बत्थ परिपूरकारी नाम. सत्तमेपि छट्ठे वुत्तनयेनेव पुग्गलपरिच्छेदो वेदितब्बो.

८. निकट्ठसुत्तवण्णना

१३८. अट्ठमे निकट्ठकायोति निग्गतकायो. अनिकट्ठचित्तोति अनुपविट्ठचित्तो. कायेनेव गामतो निक्खन्तो, चित्तेन अरञ्ञे वसन्तोपि गाममेव पविट्ठोति वुत्तं होति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.

९. धम्मकथिकसुत्तवण्णना

१३९. नवमे असहितन्ति अत्थेन असंयुत्तं. न कुसला होतीति न छेका होति. सहितासहितस्साति अत्थनिस्सितस्स वा अनिस्सितस्स वा. एवं सब्बत्थ अत्थो वेदितब्बो.

१०. वादीसुत्तवण्णना

१४०. दसमे अत्थतो परियादानं गच्छतीति अट्ठकथं पुच्छितो परियादानं परिक्खयं गच्छति, कथेतुं न सक्कोति. नो ब्यञ्जनतोति ब्यञ्जनं पनस्स पवत्तति न परियादियति. एसेव नयो सब्बत्थाति.

पुग्गलवग्गो चतुत्थो.

(१५) ५. आभावग्गो

१. आभासुत्तवण्णना

१४१. पञ्चमस्स पठमे आभासनवसेन चन्दोव चन्दाभा. सेसपदेसुपि एसेव नयो.

२-५. पभासुत्तादिवण्णना

१४२-१४५. दुतियादीसुपि पभासनवसेन चन्दोव चन्दप्पभा. आलोकनवसेन चन्दोव चन्दालोको. ओभासनवसेन चन्दोव चन्दोभासो. पज्जोतनवसेन चन्दोव चन्दपज्जोतोति. एवं सब्बपदेसुपि अत्थो वेदितब्बो.

६. पठमकालसुत्तवण्णना

१४६. छट्ठे कालाति युत्तप्पयुत्तकाला. कालेन धम्मस्सवनन्ति युत्तप्पयुत्तकाले धम्मस्सवनं. धम्मसाकच्छाति पञ्हपुच्छनविस्सज्जनवसेन पवत्ता संसन्दनकथा.

७. दुतियकालसुत्तवण्णना

१४७. सत्तमे कालाति तस्मिं तस्मिं काले धम्मस्सवनादिवसेन पवत्तानं कुसलधम्मानं एतं अधिवचनं. ते भावियन्ति चेव अनुपरिवत्तियन्ति च. आसवानं खयन्ति अरहत्तं. अट्ठमं उत्तानत्थमेव.

९-१०. सुचरितसुत्तादिवण्णना

१४९-१५०. नवमे सण्हा वाचाति मुदुकवाचा. मन्तभासाति मन्तसङ्खाताय पञ्ञाय परिच्छिन्दित्वा कथितकथा. दसमे सीलसारोति सारसम्पापकं सीलं. सेसेसुपि एसेव नयो.

आभावग्गो पञ्चमो.

ततियपण्णासकं निट्ठितं.