५. छवालातसुत्तवण्णना

९५. पञ्चमे छवालातन्ति सुसाने अलातं. मज्झे गूथगतन्ति मज्झट्ठाने गूथमक्खितं. नेव गामे कट्ठत्थं फरतीति कूटगोपानसिथम्भसोपानादीनं अत्थाय अनुपनेय्यताय गामे न कट्ठत्थं साधेति, खेत्तकुटिपादं वा मञ्चपादं वा कातुं अनुपनेय्यताय न अरञ्ञे कट्ठत्थं साधेति. द्वीसु कोटीसु गय्हमानं हत्थं डहति, मज्झे गय्हमानं गूथेन मक्खेति. तथूपमन्ति तंसरिक्खकं. अभिक्कन्ततरोति सुन्दरतरो. पणीततरोति उत्तमतरो. गवा खीरन्ति गावितो खीरं. खीरम्हा दधीतिआदीसु परं परं पुरिमतो पुरिमतो अग्गं, सप्पिमण्डो पन तेसु सब्बेसुपि अग्गमेव. अग्गोतिआदीसु गुणेहि अग्गो चेव सेट्ठो च पमुखो च उत्तमो च पवरो चाति वेदितब्बो. छवालातूपमाय न दुस्सीलो पुग्गलो कथितो, अप्पस्सुतो पन विस्सट्ठकम्मन्तो गोणसदिसो पुग्गलो कथितोति वेदितब्बो. छट्ठे सब्बं उत्तानत्थमेव.