७. पुत्तसुत्तवण्णना
८७. सत्तमे समणमचलोति समणअचलो, मकारो पदसन्धिकरो, निच्चलसमणोति अत्थो. इमिना सत्तविधम्पि सेखं दस्सेति. सो हि सासने मूलजाताय सद्धाय पतिट्ठितत्ता अचलो नाम. समणपुण्डरीकोति पुण्डरीकसदिसो समणो. पुण्डरीकं नाम ऊनसतपत्तं सरोरुहं. इमिना सुक्खविपस्सकखीणासवं दस्सेति. सो हि झानाभिञ्ञानं अभावेन अपरिपुण्णगुणत्ता समणपुण्डरीको नाम होति. समणपदुमोति पदुमसदिसो समणो. पदुमं नाम परिपुण्णसतपत्तं सरोरुहं. इमिना उभतोभागविमुत्तं खीणासवं दस्सेति. सो हि झानाभिञ्ञानं भावेन परिपुण्णगुणत्ता समणपदुमो नाम होति. समणेसु समणसुखुमालोति सब्बेसुपि एतेसु समणेसु सुखुमालसमणो मुदुचित्तसरीरो कायिकचेतसिकदुक्खरहितो एकन्तसुखी. एतेन अत्तानञ्चेव अत्तसदिसे च दस्सेति.
एवं मातिकं निक्खिपित्वा इदानि पटिपाटिया विभजन्तो कथञ्च, भिक्खवेतिआदिमाह. तत्थ सेखोति सत्तविधोपि सेखो. पाटिपदोति पटिपन्नको. अनुत्तरं योगक्खेमं पत्थयमानो विहरतीति अरहत्तं पत्थयन्तो विहरति. मुद्धावसित्तस्साति मुद्धनि अवसित्तस्स, कताभिसेकस्साति अत्थो. आभिसेकोति अभिसेकं कातुं युत्तो. अनभिसित्तोति न ताव अभिसित्तो. मचलप्पत्तोति रञ्ञो खत्तियस्स मुद्धावसित्तस्स पुत्तभावेन चेव पुत्तेसु जेट्ठकभावेन च न ताव अभिसित्तभावेन च अभिसेकप्पत्तिअत्थाय अचलप्पत्तो निच्चलपत्तो. मकारो निपातमत्तं. कायेन फुसित्वाति नामकायेन फुसित्वा.
याचितोव बहुलं चीवरं परिभुञ्जतीति ‘‘इदं, भन्ते, परिभुञ्जथा’’ति एवं दायकेहि याचमानेहेव उपनीतं चीवरं बहुं परिभुञ्जति, किञ्चिदेव अयाचितं, बाकुलत्थेरो विय. पिण्डपातं खदिरवनमग्गे सीवलित्थेरो विय. सेनासनं अट्ठकनागरसुत्ते (म. नि. २.१७ आदयो; अ. नि. ११.१६ आदयो) आनन्दत्थेरो विय. गिलानपच्चयं पिलिन्दवच्छथेरो विय. त्यस्साति ते अस्स. मनापेनेवाति मनं अल्लीयनकेन. समुदाचरन्तीति कत्तब्बकिच्चानि करोन्ति पवत्तन्ति वा. उपहारं उपहरन्तीति कायिकचेतसिकउपहारं उपहरन्ति उपनीयन्ति. सन्निपातिकानीति तिण्णम्पि सन्निपातेन निब्बत्तानि. उतुपरिणामजानीति उतुपरिणामतो अतिसीतअतिउण्हउतुतो जातानि. विसमपरिहारजानीति अच्चासनअतिट्ठानादिका विसमपरिहारतो जातानि. ओपक्कमिकानीति वधबन्धनादिउपक्कमेन निब्बत्तानि. कम्मविपाकजानीति विनापि इमेहि कारणेहि केवलं पुब्बे कतकम्मविपाकवसेनेव जातानि. चतुन्नं झानानन्ति एत्थ खीणासवानम्पि बुद्धानम्पि किरियज्झानानेव अधिप्पेतानि. सेसं उत्तानत्थमेवाति.