१०. अधम्मिकसुत्तवण्णना

७०. दसमे अधम्मिका होन्तीति पोराणकराजूहि ठपितं दसभागबलिञ्चेव अपराधानुरूपञ्च दण्डं अग्गहेत्वा अतिरेकबलिनो चेव अतिरेकदण्डस्स च गहणेन अधम्मिका. राजायुत्ताति रञ्ञो जनपदेसु किच्चसंविधायका आयुत्तकपुरिसा. ब्राह्मणगहपतिकाति अन्तोनगरवासिनो ब्राह्मणगहपतयो. नेगमजानपदाति निगमवासिनो चेव जनपदवासिनो च. विसमन्ति विसमा हुत्वा, असमयेन वायन्तीति अत्थो. विसमाति न समा, अतिथद्धा वा अतिमुदुका वाति अत्थो. अपञ्जसाति मग्गतो अपगता, उम्मग्गगामिनो हुत्वा वायन्तीति अत्थो. देवता परिकुपिता भवन्तीति वातेसु हि विसमेसु अपञ्जसेसु वायन्तेसु रुक्खा भिज्जन्ति, विमानानि भिज्जन्ति. तस्मा देवता परिकुपिता भवन्ति, ता देवस्स सम्मा वस्सितुं न देन्ति. तेन वुत्तं देवो न सम्मा धारं अनुप्पवेच्छतीति. विसमपाकानि सस्सानि भवन्तीति एकस्मिं ठाने गब्भीनि होन्ति, एकस्मिं सञ्जातखीरानि, एकं ठानं पच्चतीति एवं विसमं पाकानि सस्सानि भवन्ति.

समं नक्खत्तानि तारकरूपानि परिवत्तन्तीति यथा कत्तिकपुण्णमा कत्तिकनक्खत्तमेव लभति, मिगसिरपुण्णमा मिगसिरनक्खत्तमेवाति एवं तस्मिं तस्मिं मासे सा सा पुण्णमा तं तं नक्खत्तमेव लभति, तथा सम्मा परिवत्तन्ति. समं वाता वायन्तीति अविसमा हुत्वा समयस्मिंयेव वायन्ति, छ मासे उत्तरा वाता, छ मासेदक्खिणाति एवं तेसं तेसं जनपदानं अनुरूपे समये वायन्ति. समाति समप्पवत्तिनो नातिथद्धा नातिमुदू. पञ्जसाति मग्गप्पटिपन्ना, मग्गेनेव वायन्ति, नो अमग्गेनाति अत्थो.

जिम्हं गच्छतीति कुटिलं गच्छति, अतित्थं गण्हाति. नेत्ते जिम्हं गते सतीति नयतीति नेत्ता. तस्मिं नेत्ते जिम्हं गते कुटिलं गन्त्वा अतित्थं गण्हन्ते इतरापि अतित्थमेव गण्हन्तीति अत्थो. नेतेतिपि पाठो. दुक्खं सेतीति दुक्खं सयति, दुक्खितं होतीति अत्थो.

पत्तकम्मवग्गो दुतियो.