९. विपल्लाससुत्तवण्णना

४९. नवमे सञ्ञाविपल्लासाति सञ्ञाय विपल्लत्थभावा, चतस्सो विपरीतसञ्ञायोति अत्थो. सेसपदद्वयेपि एसेव नयो. अनिच्चे, भिक्खवे, निच्चन्ति सञ्ञाविपल्लासोति अनिच्चे वत्थुस्मिं ‘‘निच्चं इद’’न्ति एवं गहेत्वा उप्पज्जनकसञ्ञा, सञ्ञाविपल्लासोति अत्थो. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.

अनत्तनि च अत्ताति अनत्तनि ‘‘अत्ता’’ति एवंसञ्ञिनोति अत्थो. मिच्छादिट्ठिहताति न केवलं सञ्ञिनोव, सञ्ञाय विय उप्पज्जमानाय मिच्छादिट्ठियापि हता. खित्तचित्ताति ते सञ्ञादिट्ठियो विय उप्पज्जमानेन खित्तेन चित्तेन समन्नागता. विसञ्ञिनोति देसनामत्तमेतं, विपरीतसञ्ञाचित्तदिट्ठिनोति अत्थो. ते योगयुत्ता मारस्साति ते मारस्स योगे युत्ता नाम होन्ति. अयोगक्खेमिनोति चतूहि योगेहि खेमं निब्बानं अप्पत्ता. सत्ताति पुग्गला. बुद्धाति चतुसच्चबुद्धा. इमं धम्मन्ति चतुसच्चधम्मं. सचित्तं पच्चलद्धाति सकं चित्तं पटिलभित्वा. अनिच्चतो दक्खुन्ति अनिच्चभावेन अद्दसंसु. असुभतद्दसुन्ति असुभं असुभतोयेव अद्दसंसु. सम्मादिट्ठिसमादानाति गहितसम्मादस्सना. सब्बं दुक्खं उपच्चगुन्ति सकलं वट्टदुक्खं समतिक्कन्ता.