८. विसाखसुत्तवण्णना
४८. अट्ठमे पञ्चालपुत्तोति पञ्चालब्राह्मणिया पुत्तो. पोरिया वाचायाति परिपुण्णवाचाय. विस्सट्ठायाति अपलिबुद्धाय. अनेलगलायाति निद्दोसाय चेव अगळिताय च अपतितपदब्यञ्जनाय. परियापन्नायाति विवट्टपरियापन्नाय. अनिस्सितायाति वट्टं अनिस्सिताय. विवट्टनिस्सितमेव कत्वा कथेति, वट्टनिस्सितं कत्वा न कथेतीति अयमेत्थ अधिप्पायो.
नाभासमानन्ति न अकथेन्तं. अमतं पदन्ति निब्बानपदं. भासयेति ओभासेय्य. जोतयेति तस्सेव वेवचनं. पग्गण्हे इसिनं धजन्ति अब्भुग्गतट्ठेन नवलोकुत्तरधम्मो इसीनं धजो नाम वुच्चति, तमेव पग्गण्हेय्य उक्खिपेय्य, उच्चं कत्वा कथेय्याति अत्थो. नवलोकुत्तरधम्मदीपकं सुभासितं धजो एतेसन्ति सुभासितधजा. इसयोति बुद्धादयो अरिया. धम्मो हि इसिनं धजोति हेट्ठा वुत्तनयेनेव लोकुत्तरधम्मो इसीनं धजो नामाति.