२. सङ्गहसुत्तवण्णना

३२. दुतिये सङ्गहवत्थूनीति सङ्गण्हनकारणानि. दानञ्चातिआदीसु एकच्चो हि दानेनेव सङ्गण्हितब्बो होति, तस्स दानमेव दातब्बं. पेय्यवज्जन्ति पियवचनं. एकच्चो हि ‘‘अयं दातब्बं नाम देति, एकेकेन पन वचनेन सब्बं मक्खेत्वा नासेति, किं तस्स दान’’न्ति वत्ता होति. एकच्चो ‘‘अयं किञ्चापि दानं न देति, कथेन्तो पन तेलेन विय मक्खेति. एस देतु वा मा वा, वचनमेवस्स सहस्सं अग्घती’’ति वत्ता होति. एवरूपो पुग्गलो दानं न पच्चासीसति, पियवचनमेव पच्चासीसति. तस्स पियवचनमेव वत्तब्बं. अत्थचरियाति अत्थवड्ढनकथा. एकच्चो हि नेव दानं, न पियवचनं पच्चासीसति, अत्तनो हितकथं वड्ढिकथमेव पच्चासीसति. एवरूपस्स पुग्गलस्स ‘‘इदं ते कातब्बं, इदं न कातब्बं, एवरूपो पुग्गलो सेवितब्बो, एवरूपो न सेवितब्बो’’ति एवं अत्थचरियकथाव कथेतब्बा. समानत्तताति समानसुखदुक्खभावो. एकच्चो हि दानादीसु एकम्पि न पच्चासीसति, एकासने निसज्जं, एकपल्लङ्के सयनं, एकतो भोजनन्ति एवं समानसुखदुक्खतं पच्चासीसति. सो सचे गहट्ठस्स जातिया पब्बजितस्स सीलेन सदिसो होति, तस्सायं समानत्तता कातब्बा. तत्थ तत्थ यथारहन्ति तेसु तेसु धम्मेसु यथानुच्छविकं समानत्तताति अत्थो. रथस्साणीव यायतोति यथा रथस्स गच्छतो आणि सङ्गहो नाम होति, सा रथं सङ्गण्हाति, एवमिमे सङ्गहा लोकं सङ्गण्हन्ति. न माता पुत्तकारणाति यदि माता एते सङ्गहे पुत्तस्स न करेय्य, पुत्तकारणा मानं वा पूजं वा न लभेय्य. सङ्गहा एतेति उपयोगवचने पच्चत्तं. सङ्गहे एतेति वा पाठो. समवेक्खन्तीति सम्मा पेक्खन्ति. पासंसा च भवन्तीति पसंसनीया च भवन्ति.