१. अच्चायिकसुत्तवण्णना
९३. पञ्चमस्स पठमे अच्चायिकानीति अतिपातिकानि. करणीयानीति अवस्सकिच्चानि. यञ्हि न अवस्सं कातब्बं, तं किच्चन्ति वुच्चति. अवस्सं कातब्बं करणीयं नाम. सीघं सीघन्ति वेगेन वेगेन. तस्स खो तन्ति एत्थ तन्ति निपातमत्तं. नत्थि सा इद्धि वा आनुभावो वाति सा वा इद्धि सो वा आनुभावो नत्थि. उत्तरस्वेति ततियदिवसे. उतुपरिणामिनीति लद्धउतुपरिणामानि हुत्वा. जायन्तिपीति ततियदिवसे निक्खन्तसेतङ्कुरानि होन्ति, सत्ताहे पत्ते नीलङ्कुरानि होन्ति. गब्भीनिपि होन्तीति दियड्ढमासं पत्वा गहितगब्भानि होन्ति. पच्चन्तिपीति तयो मासे पत्वा पच्चन्ति. इदानि यस्मा बुद्धानं गहपतिकेन वा सस्सेहि वा अत्थो नत्थि, सासने पन तप्पटिरूपकं पुग्गलं वा अत्थं वा दस्सेतुं तं तं ओपम्मं आहरन्ति. तस्मा यमत्थं दस्सेतुकामेन एतं आभतं, तं दस्सेन्तो एवमेव खोतिआदिमाह. तं अत्थतो उत्तानमेव. सिक्खा पन इधापि मिस्सिका एव कथिता.