५. निवेसकसुत्तवण्णना

७६. पञ्चमे अमच्चाति सुहज्जा. ञातीति सस्सुससुरपक्खिका. सालोहिताति समानलोहिता भातिभगिनिआदयो. अवेच्चप्पसादेति गुणे अवेच्च जानित्वा उप्पन्ने अचलप्पसादे. अञ्ञथत्तन्ति भावञ्ञथत्तं. पथवीधातुयातिआदीसु वीसतिया कोट्ठासेसु थद्धाकारभूताय पथवीधातुया, द्वादससु कोट्ठासेसु यूसगताय आबन्धनभूताय आपोधातुया, चतूसु कोट्ठासेसु परिपाचनभूताय तेजोधातुया, छसु कोट्ठासेसु वित्थम्भनभूताय वायोधातुया सिया अञ्ञथत्तं. न त्वेवाति इमेसं हि चतुन्नं महाभूतानं अञ्ञमञ्ञभावूपगमनेन सिया अञ्ञथत्तं, अरियसावकस्स पन न त्वेव सियाति दस्सेति. एत्थ च अञ्ञथत्तन्ति पसादञ्ञथत्तञ्च गतिअञ्ञथत्तञ्च. तञ्हि तस्स न होति, भावञ्ञथत्तं पन होति. अरियसावको हि मनुस्सो हुत्वा देवोपि होति ब्रह्मापि. पसादो पनस्स भवन्तरेपि न विगच्छति, न च अपायगतिसङ्खातं गतिअञ्ञथत्तं पापुणाति. सत्थापि तदेव दस्सेन्तो तत्रिदं अञ्ञथत्तन्तिआदिमाह. सेसमेत्थ उत्तानत्थमेवाति.