२. आजीवकसुत्तवण्णना

७३. दुतिये तेन हि गहपतीति थेरो किर चिन्तेसि – ‘‘अयं इध आगच्छन्तो न अञ्ञातुकामो हुत्वा आगमि, परिग्गण्हनत्थं पन आगतो. इमिना पुच्छितपञ्हं इमिनाव कथापेस्सामी’’ति. इति तंयेव कथं कथापेतुकामो तेन हीतिआदिमाह. तत्थ तेन हीति कारणापदेसो. यस्मा त्वं एवं पुच्छसि, तस्मा तञ्ञेवेत्थ पटिपुच्छामीति. केसं नोति कतमेसं नु. सधम्मुक्कंसनाति अत्तनो लद्धिया उक्खिपित्वा ठपना. परधम्मापसादनाति परेसं लद्धिया घट्टना वम्भना अवक्खिपना. आयतनेव धम्मदेसनाति कारणस्मिंयेव धम्मदेसना. अत्थो च वुत्तोति मया पुच्छितपञ्हाय अत्थो च पकासितो. अत्ता च अनुपनीतोति अम्हे एवरूपाति एवं अत्ता च न उपनीतो. नुपनीतोतिपि पाठो.