३. महानामसक्कसुत्तवण्णना

७४. ततिये गिलाना वुट्ठितोति गिलानो हुत्वा वुट्ठितो. गेलञ्ञाति गिलानभावतो. उपसङ्कमीति भुत्तपातरासो मालागन्धादीनि आदाय महापरिवारपरिवुतो उपसङ्कमि. बाहायं गहेत्वाति न बाहायं गहेत्वा आकड्ढि, निसिन्नासनतो वुट्ठाय तस्स सन्तिकं गन्त्वा दक्खिणबाहायं अङ्गुट्ठकेन सञ्ञं दत्वा एकमन्तं अपनेसीति वेदितब्बो. अथस्स ‘‘सेखम्पि खो, महानाम, सील’’न्तिआदिना नयेन सत्तन्नं सेखानं सीलञ्च समाधिञ्च पञ्ञञ्च कथेत्वा उपरि अरहत्तफलवसेन असेखा सीलसमाधिपञ्ञायो कथेन्तो – ‘‘सेखसमाधितो सेखं विपस्सनाञाणं असेखञ्च फलञाणं पच्छा, सेखविपस्सनाञाणतो च असेखफलसमाधि पच्छा उप्पज्जती’’ति दीपेसि. यानि पन सम्पयुत्तानि समाधिञाणानि, तेसं अपच्छा अपुरे उप्पत्ति वेदितब्बाति.