६. साळ्हसुत्तवण्णना
६७. छट्ठे मिगारनत्ताति मिगारसेट्ठिनो नत्ता. सेखुनियनत्ताति सेखुनियसेट्ठिनो नत्ता. उपसङ्कमिंसूति भुत्तपातरासा दासकम्मकरपरिवुता उपसङ्कमिंसु. तेसं किर पुरेभत्ते पुब्बण्हसमयेयेव गेहे एको पञ्हो समुट्ठितो, तं पन कथेतुं ओकासो नाहोसि. ते ‘‘तं पञ्हं सोस्सामा’’ति थेरस्स सन्तिकं गन्त्वा वन्दित्वा तुण्ही निसीदिंसु. थेरो ‘‘गामे तं समुट्ठितं पञ्हं सोतुं आगता भविस्सन्ती’’ति तेसं मनं ञत्वा तमेव पञ्हं आरभन्तो एथ तुम्हे साळ्हातिआदिमाह. तत्थ अत्थि लोभोति लुब्भनसभावो लोभो नाम अत्थीति पुच्छति. अभिज्झाति खो अहं साळ्हा एतमत्थं वदामीति एतं लोभसङ्खातं अत्थं अहं ‘‘अभिज्झा’’ति वदामि, ‘‘तण्हा’’ति वदामीति समुट्ठितपञ्हस्स अत्थं दीपेन्तो आह. एवं सब्बवारेसु नयो नेतब्बो.
सो एवं पजानातीति सो चत्तारो ब्रह्मविहारे भावेत्वा ठितो अरियसावको समापत्तितो वुट्ठाय विपस्सनं आरभन्तो एवं पजानाति. अत्थि इदन्ति अत्थि दुक्खसच्चसङ्खातं खन्धपञ्चकं नामरूपवसेन परिच्छिन्दित्वा पजानन्तो एस ‘‘एवं पजानाति अत्थि इद’’न्ति वुत्तो. हीनन्ति समुदयसच्चं. पणीतन्ति मग्गसच्चं. इमस्स सञ्ञागतस्स उत्तरि निस्सरणन्ति इमस्स विपस्सनासञ्ञासङ्खातस्स सञ्ञागतस्स उत्तरि निस्सरणं नाम निब्बानं, तमत्थीति इमिना निरोधसच्चं दस्सेति. विमुत्तस्मिं विमुत्तमिति ञाणन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं कथितं. अहु पुब्बे लोभोति पुब्बे मे लोभो अहोसि. तदहु अकुसलन्ति तं अकुसलं नाम अहोसि, तदा वा अकुसलं नाम अहोसि. इच्चेतं कुसलन्ति इति एतं कुसलं, तस्सेव अकुसलस्स नत्थिभावं कुसलं खेमन्ति सन्धाय वदति. निच्छातोति नित्तण्हो. निब्बुतोति अब्भन्तरे सन्तापकरानं किलेसानं अभावेन निब्बुतो. सीतिभूतोति सीतलीभूतो. सुखप्पटिसंवेदीति कायिकचेतसिकस्स सुखस्स पटिसंवेदिता. ब्रह्मभूतेनाति सेट्ठभूतेन. सेसं सब्बत्थ उत्तानत्थमेवाति.