७. कथावत्थुसुत्तवण्णना

६८. सत्तमे कथावत्थूनीति कथाकारणानि, कथाय भूमियो पतिट्ठायोति अत्थो. अतीतं वा, भिक्खवे, अद्धानन्ति अतीतमद्धानं नाम कालोपि वट्टति खन्धापि. अनागतपच्चुप्पन्नेसुपि एसेव नयो. तत्थ अतीते कस्सपो नाम सम्मासम्बुद्धो अहोसि, तस्स किकी नाम कासिकराजा अग्गुपट्ठाको अहोसि, वीसति वस्ससहस्सानि आयु अहोसीति इमिना नयेन कथेन्तो अतीतं आरब्भ कथं कथेति नाम. अनागते मेत्तेय्यो नाम बुद्धो भविस्सति, तस्स सङ्खो नाम राजा अग्गुपट्ठाको भविस्सति, असीति वस्ससहस्सानि आयु भविस्सतीति इमिना नयेन कथेन्तो अनागतं आरब्भ कथं कथेति नाम. एतरहि असुको नाम राजा धम्मिकोति इमिना नयेन कथेन्तो पच्चुप्पन्नं आरब्भ कथं कथेति नाम.

कथासम्पयोगेनाति कथासमागमेन. कच्छोति कथेतुं युत्तो. अकच्छोति कथेतुं न युत्तो. एकंसब्याकरणीयं पञ्हन्तिआदीसु, ‘‘चक्खु, अनिच्च’’न्ति पुट्ठेन, ‘‘आम, अनिच्च’’न्ति एकंसेनेव ब्याकातब्बं. एसेव नयो सोतादीसु. अयं एकंसब्याकरणीयो पञ्हो. ‘‘अनिच्चं नाम चक्खू’’ति पुट्ठेन पन ‘‘न चक्खुमेव, सोतम्पि अनिच्चं, घानम्पि अनिच्च’’न्ति एवं विभजित्वा ब्याकातब्बं. अयं विभज्जब्याकरणीयो पञ्हो. ‘‘यथा चक्खु, तथा सोतं. यथा सोतं, तथा चक्खू’’ति पुट्ठेन ‘‘केनट्ठेन पुच्छसी’’ति पटिपुच्छित्वा ‘‘दस्सनट्ठेन पुच्छामी’’ति वुत्ते ‘‘न ही’’ति ब्याकातब्बं. ‘‘अनिच्चट्ठेन पुच्छामी’’ति वुत्ते, ‘‘आमा’’ति ब्याकातब्बं. अयं पटिपुच्छाब्याकरणीयो पञ्हो. ‘‘तं जीवं तं सरीर’’न्तिआदीनि पुट्ठेन पन ‘‘अब्याकतमेतं भगवता’’ति ठपेतब्बो, एस पञ्हो न ब्याकातब्बो. अयं ठपनीयो पञ्हो.

ठानाठाने न सण्ठातीति कारणाकारणे न सण्ठाति. तत्रायं नयो – सस्सतवादी युत्तेन कारणेन पहोति उच्छेदवादिं निग्गहेतुं, उच्छेदवादी तेन निग्गय्हमानो ‘‘किं पनाहं उच्छेदं वदामी’’ति सस्सतवादिभावमेव दीपेति, अत्तनो वादे पतिट्ठातुं न सक्कोति. एवं उच्छेदवादिम्हि पहोन्ते सस्सतवादी, पुग्गलवादिम्हि पहोन्ते सुञ्ञतवादी, सुञ्ञतवादिम्हि पहोन्ते पुग्गलवादीति एवं ठानाठाने न सण्ठाति नाम.

परिकप्पे न सण्ठातीति इदं पञ्हपुच्छनेपि पञ्हकथनेपि लब्भति. कथं? एकच्चो हि ‘‘पञ्हं पुच्छिस्सामी’’ति कण्ठं सोधेति, सो इतरेन ‘‘इदं नाम त्वं पुच्छिस्ससी’’ति वुत्तो ञातभावं ञत्वा ‘‘न एतं, अञ्ञं पुच्छिस्सामी’’ति वदति. पञ्हं पुट्ठोपि ‘‘पञ्हं कथेस्सामी’’ति हनुं संसोधेति, सो इतरेन ‘‘इदं नाम कथेस्ससी’’ति वुत्तो ञातभावं ञत्वा ‘‘न एतं, अञ्ञं कथेस्सामी’’ति वदति. एवं परिकप्पे न सण्ठाति नाम.

अञ्ञातवादे न सण्ठातीति अञ्ञातवादे जानितवादे न सण्ठाति. कथं? एकच्चो पञ्हं पुच्छति, तं इतरो ‘‘मनापो तया पञ्हो पुच्छितो, कहं ते एस उग्गहितो’’ति वदति. इतरो पुच्छितब्बनियामेनेव पञ्हं पुच्छित्वापि तस्स कथाय ‘‘अपञ्हं नु खो पुच्छित’’न्ति विमतिं करोति. अपरो पञ्हं पुट्ठो कथेति, तमञ्ञो ‘‘सुट्ठु ते पञ्हो कथितो, कत्थ ते उग्गहितो, पञ्हं कथेन्तेन नाम एवं कथेतब्बो’’ति वदति. इतरो कथेतब्बनियामेनेव पञ्हं कथेत्वापि तस्स कथाय ‘‘अपञ्हो नु खो मया कथितो’’ति विमतिं करोति.

पटिपदाय न सण्ठातीति पटिपत्तियं न तिट्ठति, वत्तं अजानित्वा अपुच्छितब्बट्ठाने पुच्छतीति अत्थो. अयं पञ्हो नाम चेतियङ्गणे पुच्छितेन न कथेतब्बो, तथा भिक्खाचारमग्गे गामं पिण्डाय चरणकाले. आसनसालाय निसिन्नकाले यागुं वा भत्तं वा गहेत्वा निसिन्नकाले परिभुञ्जित्वा निसिन्नकाले दिवाविहारट्ठानगमनकालेपि. दिवाट्ठाने निसिन्नकाले पन ओकासं कारेत्वाव पुच्छन्तस्स कथेतब्बो, अकारेत्वा पुच्छन्तस्स न कथेतब्बो. इदं वत्तं अजानित्वा पुच्छन्तो पटिपदाय न सण्ठाति नाम. एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होतीति, भिक्खवे, एतं इमस्मिं च कारणे सति अयं पुग्गलो न कथेतुं युत्तो नाम होति.

ठानाठाने सण्ठातीति सस्सतवादी युत्तेन कारणेन पहोति उच्छेदवादिं निग्गहेतुं, उच्छेदवादी तेन निग्गय्हमानोपि ‘‘अहं तया सतक्खत्तुं निग्गय्हमानोपि उच्छेदवादीयेवा’’ति वदति. इमिना नयेन सस्सतपुग्गलसुञ्ञतवादादीसुपि नयो नेतब्बो. एवं ठानाठाने सण्ठाति नाम. परिकप्पे सण्ठातीति ‘‘पञ्हं पुच्छिस्सामी’’ति कण्ठं सोधेन्तो ‘‘त्वं इमं नाम पुच्छिस्ससी’’ति वुत्ते, ‘‘आम, एतंयेव पुच्छिस्सामी’’ति वदति. पञ्हं कथेस्सामीति हनुं संसोधेन्तोपि ‘‘त्वं इमं नाम कथेस्ससी’’ति वुत्ते, ‘‘आम, एतंयेव कथेस्सामी’’ति वदति. एवं परिकप्पे सण्ठाति नाम.

अञ्ञातवादे सण्ठातीति इमं पञ्हं पुच्छित्वा ‘‘सुट्ठु ते पञ्हो पुच्छितो, पुच्छन्तेन नाम एवं पुच्छितब्ब’’न्ति वुत्ते सम्पटिच्छति, विमतिं न उप्पादेति. पञ्हं कथेत्वापि ‘‘सुट्ठु ते पञ्हो कथितो, कथेन्तेन नाम एवं कथेतब्ब’’न्ति वुत्ते सम्पटिच्छति, विमतिं न उप्पादेति. पटिपदाय सण्ठातीति गेहे निसीदापेत्वा यागुखज्जकादीनि दत्वा याव भत्तं निट्ठाति, तस्मिं अन्तरे निसिन्नो पञ्हं पुच्छति. सप्पिआदीनि भेसज्जानि अट्ठविधानि पानकानि वत्थच्छादनमालागन्धादीनि वा आदाय विहारं गन्त्वा तानि दत्वा दिवाट्ठानं पविसित्वा ओकासं कारेत्वा पञ्हं पुच्छति. एवञ्हि वत्तं ञत्वा पुच्छन्तो पटिपदाय सण्ठाति नाम. तस्स पञ्हं कथेतुं वट्टति.

अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन वचनेन अञ्ञं पटिच्छादेति, अञ्ञं वा पुच्छितो अञ्ञं कथेति. बहिद्धा कथं अपनामेतीति आगन्तुककथं ओतारेन्तो पुरिमकथं बहिद्धा अपनामेति. तत्रिदं वत्थु – भिक्खू किर सन्निपतित्वा एकं दहरं, ‘‘आवुसो, त्वं इमञ्चिमञ्च आपत्तिं आपन्नो’’ति आहंसु. सो आह – ‘‘भन्ते, नागदीपं गतोम्ही’’ति. आवुसो, न मयं तव नागदीपगमनेन अत्थिका, आपत्तिं पन आपन्नोति पुच्छामाति. भन्ते, नागदीपं गन्त्वा मच्छे खादिन्ति. आवुसो, तव मच्छखादनेन कम्मं नत्थि, आपत्तिं किरसि आपन्नोति. सो ‘‘नातिसुपक्को मच्छो मय्हं अफासुकमकासि, भन्ते’’ति. आवुसो, तुय्हं फासुकेन वा अफासुकेन वा कम्मं नत्थि, आपत्तिं आपन्नोसीति. भन्ते, याव तत्थ वसिं, ताव मे अफासुकमेव जातन्ति. एवं आगन्तुककथावसेन बहिद्धा कथं अपनामेतीति वेदितब्बं.

अभिहरतीति इतो चितो च सुत्तं आहरित्वा अवत्थरति. तेपिटकतिस्सत्थेरो विय. पुब्बे किर भिक्खू महाचेतियङ्गणे सन्निपतित्वा सङ्घकिच्चं कत्वा भिक्खूनं ओवादं दत्वा अञ्ञमञ्ञं पञ्हसाकच्छं करोन्ति. तत्थायं थेरो तीहि पिटकेहि ततो ततो सुत्तं आहरित्वा दिवसभागे एकम्पि पञ्हं निट्ठापेतुं न देति. अभिमद्दतीति कारणं आहरित्वा मद्दति. अनुपजग्घतीति परेन पञ्हे पुच्छितेपि कथितेपि पाणिं पहरित्वा महाहसितं हसति, येन परस्स ‘‘अपुच्छितब्बं नु खो पुच्छिं, अकथेतब्बं नु खो कथेसि’’न्ति विमति उप्पज्जति. खलितं गण्हातीति अप्पमत्तकं मुखदोसमत्तं गण्हाति, अक्खरे वा पदे वा ब्यञ्जने वा दुरुत्ते ‘‘एवं नामेतं वत्तब्ब’’न्ति उज्झायमानो विचरति. सउपनिसोति सउपनिस्सयो सपच्चयो.

ओहितसोतोति ठपितसोतो. अभिजानाति एकं धम्मन्ति एकं कुसलधम्मं अभिजानाति अरियमग्गं. परिजानाति एकं धम्मन्ति एकं दुक्खसच्चधम्मं तीरणपरिञ्ञाय परिजानाति. पजहति एकं धम्मन्ति एकं सब्बाकुसलधम्मं पजहति विनोदेति ब्यन्तीकरोति. सच्छिकरोति एकं धम्मन्ति एकं अरहत्तफलधम्मं निरोधमेव वा पच्चक्खं करोति. सम्माविमुत्तिं फुसतीति सम्मा हेतुना नयेन कारणेन अरहत्तफलविमोक्खं ञाणफस्सेन फुसति.

एतदत्था, भिक्खवे, कथाति, भिक्खवे, या एसा कथासम्पयोगेनाति कथा दस्सिता, सा एतदत्था, अयं तस्सा कथाय भूमि पतिट्ठा. इदं वत्थु यदिदं अनुपादा चित्तस्स विमोक्खोति एवं सब्बपदेसु योजना वेदितब्बा. एतदत्था मन्तनाति या अयं कच्छाकच्छेसु पुग्गलेसु कच्छेन सद्धिं मन्तना, सापि एतदत्थायेव. एतदत्था उपनिसाति ओहितसोतो सउपनिसोति एवं वुत्ता उपनिसापि एतदत्थायेव. एतदत्थं सोतावधानन्ति तस्सा उपनिसाय सोतावधानं, तम्पि एतदत्थमेव. अनुपादाति चतूहि उपादानेहि अग्गहेत्वा. चित्तस्स विमोक्खोति अरहत्तफलविमोक्खो. अरहत्तफलत्थाय हि सब्बमेतन्ति सुत्तन्तं विनिवत्तेत्वा उपरि गाथाहि कूटं गण्हन्तो ये विरुद्धातिआदिमाह.

तत्थ विरुद्धाति विरोधसङ्खातेन कोपेन विरुद्धा. सल्लपन्तीति सल्लापं करोन्ति. विनिविट्ठाति अभिनिविट्ठा हुत्वा. समुस्सिताति मानुस्सयेन सुट्ठु उस्सिता. अनरियगुणमासज्जाति अनरियगुणकथं गुणमासज्ज कथेन्ति. गुणं घट्टेत्वा कथा हि अनरियकथा नाम, न अरियकथा, तं कथेन्तीति अत्थो. अञ्ञोञ्ञविवरेसिनोति अञ्ञमञ्ञस्स छिद्दं अपराधं गवेसमाना. दुब्भासितन्ति दुक्कथितं. विक्खलितन्ति अप्पमत्तकं मुखदोसखलितं. सम्पमोहं पराजयन्ति अञ्ञमञ्ञस्स अप्पमत्तेन मुखदोसेन सम्पमोहञ्च पराजयञ्च. अभिनन्दन्तीति तुस्सन्ति. नाचरेति न चरति न कथेति. धम्मट्ठपटिसंयुत्ताति या च धम्मे ठितेन कथितकथा, सा धम्मट्ठा चेव होति तेन च धम्मेन पटिसंयुत्ताति धम्मट्ठपटिसंयुत्ता. अनुन्नतेन मनसाति अनुद्धतेन चेतसा. अपळासोति युगग्गाहपळासवसेन अपळासो हुत्वा. असाहसोति रागदोसमोहसाहसानं वसेन असाहसो हुत्वा.

अनुसूयायमानोति न उसूयमानो. दुब्भट्ठे नापसादयेति दुक्कथितस्मिं न अपसादेय्य. उपारम्भं न सिक्खेय्याति कारणुत्तरियलक्खणं उपारम्भं न सिक्खेय्य. खलितञ्च न गाहयेति अप्पमत्तकं मुखखलितं ‘‘अयं ते दोसो’’ति न गाहयेय्य. नाभिहरेति नावत्थरेय्य. नाभिमद्देति एकं कारणं आहरित्वा न मद्देय्य. न वाचं पयुतं भणेति सच्चालिकपटिसंयुत्तं वाचं न भणेय्य. अञ्ञातत्थन्ति जाननत्थं. पसादत्थन्ति पसादजननत्थं. न समुस्सेय्य मन्तयेति न मानुस्सयेन समुस्सितो भवेय्य. न हि मानुस्सिता हुत्वा पण्डिता कथयन्ति, मानेन पन अनुस्सितोव हुत्वा मन्तये कथेय्य भासेय्याति.