१. तित्थायतनसुत्तवण्णना

६२. दुतियस्स पठमे तित्थायतनानीति तित्थभूतानि आयतनानि, तित्थियानं वा आयतनानि. तत्थ तित्थं जानितब्बं, तित्थकरा जानितब्बा, तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तित्थं नाम द्वासट्ठि दिट्ठियो. तित्थिकरा नाम तासं दिट्ठीनं उप्पादका. तित्थिया नाम येसं ता दिट्ठियो रुच्चन्ति खमन्ति. तित्थियसावका नाम तेसं पच्चयदायका. आयतनन्ति ‘‘कम्बोजो अस्सानं आयतनं, गुन्नं दक्खिणापथो आयतन’’न्ति एत्थ सञ्जातिट्ठानं आयतनं नाम.

‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा;

छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति. (अ. नि. ५.३८) –

एत्थ समोसरणट्ठानं. ‘‘पञ्चिमानि, भिक्खवे, विमुत्तायतनानी’’ति (अ. नि. ५.२६) एत्थ कारणं. तं इध सब्बम्पि लब्भति. सब्बेपि हि दिट्ठिगतिका सञ्जायमाना इमेसुयेव तीसु ठानेसु सञ्जायन्ति, समोसरणमानापि एतेसुयेव तीसु ठानेसु समोसरन्ति सन्निपतन्ति, दिट्ठिगतिकभावे च नेसं एतानेव तीणि कारणानीति तित्थभूतानि सञ्जातिआदिना अत्थेन आयतनानीतिपि तित्थायतनानि. तेनेवत्थेन तित्थियानं आयतनानीतिपि तित्थायतनानि. समनुयुञ्जियमानानीति का नामेता दिट्ठियोति एवं पुच्छियमानानि. समनुगाहियमानानीति किंकारणा एता दिट्ठियो उप्पन्नाति एवं सम्मा अनुग्गाहियमानानि. समनुभासियमानानीति पटिनिस्सज्जेथ एतानि पापकानि दिट्ठिगतानीति एवं सम्मा अनुसासियमानानि. अपिच तीणिपि एतानि अनुयोगपुच्छावेवचनानेव. तेन वुत्तं अट्ठकथायं – ‘‘समनुयुञ्जतीति वा समनुग्गाहतीति वा समनुभासतीति वा एसेसे एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति.

परम्पि गन्त्वाति आचरियपरम्परा लद्धिपरम्परा अत्तभावपरम्पराति एतेसु यंकिञ्चि परम्परं गन्त्वापि. अकिरियाय सण्ठहन्तीति अकिरियमत्ते संतिट्ठन्ति. ‘‘अम्हाकं आचरियो पुब्बेकतवादी, अम्हाकं पाचरियो पुब्बेकतवादी, अम्हाकं आचरियपाचरियो पुब्बेकतवादी. अम्हाकं आचरियो इस्सरनिम्मानवादी, अम्हाकं पाचरियो इस्सरनिम्मानवादी, अम्हाकं आचरियपाचरियो इस्सरनिम्मानवादी. अम्हाकं आचरियो अहेतुअपच्चयवादी, अम्हाकं पाचरियो अहेतुअपच्चयवादी, अम्हाकं आचरियपाचरियो अहेतुअपच्चयवादी’’ति एवं गच्छन्तानि हि एतानि आचरियपरम्परं गच्छन्ति नाम. ‘‘अम्हाकं आचरियो पुब्बेकतलद्धिको, अम्हाकं पाचरियो…पे… अम्हाकं आचरियपाचरियो अहेतुअपच्चयलद्धिको’’ति एवं गच्छन्तानि लद्धिपरम्परं गच्छन्ति नाम. ‘‘अम्हाकं आचरियस्स अत्तभावो पुब्बेकतहेतु, अम्हाकं पाचरियस्स…पे… अम्हाकं आचरियपाचरियस्स अत्तभावो अहेतु अपच्चयो’’ति एवं गच्छन्तानि अत्तभावपरम्परं गच्छन्ति नाम. एवं पन सुविदूरम्पि गच्छन्तानि अकिरियमत्तेयेव सण्ठहन्ति, एकोपि एतेसं दिट्ठिगतिकानं कत्ता वा कारेता वा न पञ्ञायति.

पुरिसपुग्गलोति सत्तो. कामञ्च पुरिसोतिपि वुत्ते पुग्गलोतिपि वुत्ते सत्तोयेव वुत्तो होति, अयं पन सम्मुतिकथा नाम यो यथा जानाति, तस्स तथा वुच्चति. पटिसंवेदेतीति अत्तनो सन्ताने उप्पन्नं जानाति पटिसंविदितं करोति, अनुभवति वा. पुब्बेकतहेतूति पुब्बेकतकारणा, पुब्बेकतकम्मपच्चयेनेव पटिसंवेदेतीति अत्थो. इमिना कम्मवेदनञ्च किरियवेदनञ्च पटिक्खिपित्वा एकं विपाकवेदनमेव सम्पटिच्छन्ति. ये वा इमे पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना वातसमुट्ठाना सन्निपातिका उतुपरिणामजा विसमपरिहारजा ओपक्कमिका आबाधा कम्मविपाकजा आबाधाति अट्ठ रोगा वुत्ता, तेसु सत्त पटिक्खिपित्वा एकं विपाकवेदनंयेव सम्पटिच्छन्ति. येपिमे दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियायवेदनीयन्ति तयो कम्मरासयो वुत्ता, तेसुपि द्वे पटिबाहित्वा एकं अपरपरियायकम्मंयेव सम्पटिच्छन्ति. येपिमे दिट्ठधम्मवेदनीयो विपाको उपपज्जवेदनीयो अपरपरियायवेदनीयोति तयो विपाकरासयो वुत्ता, तेसुपि द्वे पटिबाहित्वा एकं अपरपरियायविपाकमेव सम्पटिच्छन्ति. येपिमे कुसलचेतना अकुसलचेतना विपाकचेतना किरियचेतनाति चत्तारो चेतनारासयो वुत्ता, तेसुपि तयो पटिबाहित्वा एकं विपाकचेतनंयेव सम्पटिच्छन्ति.

इस्सरनिम्मानहेतूति इस्सरनिम्मानकारणा, इस्सरेन निम्मितत्ता पटिसंवेदेतीति अत्थो. अयं हि तेसं अधिप्पायो – इमा तिस्सो वेदना पच्चुप्पन्ने अत्तना कतमूलकेन वा आणत्तिमूलकेन वा पुब्बेकतेन वा अहेतुअपच्चया वा पटिसंवेदितुं नाम न सक्का, इस्सरनिम्मानकारणायेव पन इमा पटिसंवेदेतीति. एवंवादिनो पनेते हेट्ठा वुत्तेसु अट्ठसु रोगेसु एकम्पि असम्पटिच्छित्वा सब्बे पटिबाहन्ति, हेट्ठा वुत्तेसु च तीसु कम्मरासीसु तीसु विपाकरासीसु चतूसु चेतनारासीसु एकम्पि असम्पटिच्छित्वा सब्बेपि पटिबाहन्ति.

अहेतुअपच्चयाति हेतुञ्च पच्चयञ्च विना, अकारणेनेव पटिसंवेदेतीति अत्थो. अयञ्हि नेसं अधिप्पायो – इमा तिस्सो वेदना पच्चुप्पन्ने अत्तना कतमूलकेन वा आणत्तिमूलकेन वा पुब्बेकतेन वा इस्सरनिम्मानहेतुना वा पटिसंवेदितुं नाम न सक्का, अहेतुअपच्चयायेव पन इमा पटिसंवेदेतीति. एवंवादिनो पनेते हेट्ठा वुत्तेसु रोगादीसु एकम्पि असम्पटिच्छित्वा सब्बं पटिबाहन्ति.

एवं सत्था मातिकं निक्खिपित्वा इदानि तं विभजित्वा दस्सेतुं तत्र, भिक्खवेतिआदिमाह. तत्थ एवं वदामीति लद्धिपतिट्ठापनत्थं एवं वदामीति दस्सेति. लद्धिञ्हि अप्पतिट्ठापेत्वा निग्गय्हमाना लद्धितो लद्धिं सङ्कमन्ति, भो गोतम, न मयं पुब्बेकतवादं वदामातिआदीनि वदन्ति. लद्धिया पन पतिट्ठापिताय सङ्कमितुं अलभन्ता सुनिग्गहिता होन्ति, इति नेसं लद्धिपतिट्ठापनत्थं एवं वदामीति आह. तेनहायस्मन्तोति तेन हि आयस्मन्तो. किं वुत्तं होति – यदि एतं सच्चं, एवं सन्ते तेन तुम्हाकं वादेन. पाणातिपातिनो भविस्सन्ति पुब्बेकतहेतूति ये केचि लोके पाणं अतिपातेन्ति, सब्बे ते पुब्बेकतहेतु पाणातिपातिनो भविस्सन्ति. किंकारणा? न हि पाणातिपातकम्मं अत्तना कतमूलकेन न आणत्तिमूलकेन न इस्सरनिम्मानहेतुना न अहेतुअपच्चया सक्का पटिसंवेदेतुं, पुब्बेकतहेतुयेव पटिसंवेदेतीति अयं वो लद्धि. यथा च पाणातिपातिनो, एवं पाणातिपाता विरमन्तापि पुब्बेकतहेतुयेव विरमिस्सन्तीति. इति भगवा तेसंयेव लद्धिं गहेत्वा तेसं निग्गहं आरोपेति. इमिना नयेन अदिन्नादायिनोतिआदीसुपि योजना वेदितब्बा.

सारतो पच्चागच्छतन्ति सारभावेन गण्हन्तानं. छन्दोति कत्तुकम्यताछन्दो. इदं वा करणीयं इदं वा अकरणीयन्ति एत्थ अयं अधिप्पायो – इदं वा करणीयन्ति कत्तब्बस्स करणत्थाय, इदं वा अकरणीयन्ति अकत्तब्बस्स अकरणत्थाय कत्तुकम्यता वा पच्चत्तपुरिसकारो वा न होति. छन्दवायामेसु वा असन्तेसु ‘‘इदं कत्तब्ब’’न्तिपि ‘‘इदं न कत्तब्ब’’न्तिपि न होति. इति करणीयाकरणीये खो पन सच्चतो थेततो अनुपलब्भियमानेति एवं कत्तब्बे च अकत्तब्बे च भूततो थिरतो अपञ्ञायमाने अलब्भमाने. यदि हि कत्तब्बं कातुं अकत्तब्बतो च विरमितुं लभेय्य, करणीयाकरणीयं सच्चतो थेततो उपलब्भेय्य. यस्मा पन उभयम्पि तं एस नुपलब्भति, तस्मा तं सच्चतो थेततो न उपलब्भति, एवं तस्मिं च अनुपलब्भियमानेति अत्थो. मुट्ठस्सतीनन्ति नट्ठस्सतीनं विस्सट्ठस्सतीनं. अनारक्खानं विहरतन्ति छसु द्वारेसु निरारक्खानं विहरन्तानं. न होति पच्चत्तं सहधम्मिको समणवादोति एवं भूतानं तुम्हाकं वा अञ्ञेसं वा मयं समणाति पच्चत्तं सकारणो समणवादो न होति न इज्झति. समणापि हि पुब्बेकतकारणायेव होन्ति, अस्समणापि पुब्बेकतकारणायेवाति. सहधम्मिकोति सकारणो. निग्गहो होतीति मम निग्गहो होति, ते पन निग्गहिता होन्तीति.

एवं पुब्बेकतवादिनो निग्गहेत्वा इदानि इस्सरनिम्मानवादिनो निग्गहेतुं तत्र, भिक्खवेतिआदिमाह. तस्सत्थो पुब्बेकतवादे वुत्तनयेनेव वेदितब्बो, तथा अहेतुकवादेपि.

एवं इमेसं तित्थायतनानं परम्पि गन्त्वा अकिरियाय सण्ठहनभावेन तुच्छभावं अनिय्यानिकभावं, असारभावेन थुसकोट्टनसदिसतं आपज्जनभावेन अग्गिसञ्ञाय धममानखज्जुपनकसरिक्खतं तंदिट्ठिकानं पुरिमस्सपि मज्झिमस्सपि पच्छिमस्सपि अत्थदस्सनताय अभावेन अन्धवेणूपमतं सद्दमत्तेनेव तानि गहेत्वा सारदिट्ठिकानं पथवियं पतितस्स बेलुवपक्कस्स दद्दभायितसद्दं सुत्वा ‘‘पथवी संवट्टमाना आगच्छती’’ति सञ्ञाय पलायन्तेन ससकेन सरिक्खभावञ्च दस्सेत्वा इदानि अत्तना देसितस्स धम्मस्स सारभावञ्चेव निय्यानिकभावञ्च दस्सेतुं अयं खो पन, भिक्खवेतिआदिमाह. तत्थ अनिग्गहितोति अञ्ञेहि अनिग्गहितो निग्गहेतुं असक्कुणेय्यो. असंकिलिट्ठोति निक्किलेसो परिसुद्धो, ‘‘संकिलिट्ठं नं करिस्सामा’’ति पवत्तेहिपि तथा कातुं असक्कुणेय्यो. अनुपवज्जोति उपवादविनिमुत्तो. अप्पटिकुट्ठोति ‘‘किं इमिना हरथ न’’न्ति एवं अप्पटिबाहितो, अनुपक्कुट्ठो वा. विञ्ञूहीति पण्डितेहि. अपण्डितानञ्हि अजानित्वा कथेन्तानं वचनं अप्पमाणं. तस्मा विञ्ञूहीति आह.

इदानि तस्स धम्मस्स दस्सनत्थं ‘‘कतमो च, भिक्खवे’’ति पञ्हं पुच्छित्वा ‘‘इमा छ धातुयो’’तिआदिना नयेन मातिकं निक्खिपित्वा यथापटिपाटिया विभजित्वा दस्सेन्तो पुन इमा छ धातुयोतिआदिमाह. तत्थ धातुयोति सभावा. निज्जीवनिस्सत्तभावप्पकासको हि सभावट्ठो धात्वट्ठो नाम. फस्सायतनानीति विपाकफस्सानं आकरट्ठेन आयतनानि. मनोपविचाराति वितक्कविचारपादेहि अट्ठारससु ठानेसु मनस्स उपविचारा.

पथवीधातूति पतिट्ठाधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. आकासधातूति असम्फुट्ठधातु. विञ्ञाणधातूति विजाननधातु. एवमिदं धातुकम्मट्ठानं आगतं. तं खो पनेतं सङ्खेपतो आगतट्ठाने सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति. वित्थारतो आगतट्ठाने सङ्खेपतो कथेतुं न वट्टति, वित्थारतोव वट्टति. इमस्मिं पन तित्थायतनसुत्ते इदं सङ्खेपतो छधातुवसेन कम्मट्ठानं आगतं. तं उभयथापि कथेतुं वट्टति.

सङ्खेपतो छधातुवसेन कम्मट्ठानं परिग्गण्हन्तोपि एवं परिग्गण्हाति – पथवीधातु आपोधातु तेजोधातु वायोधातूति इमानि चत्तारि महाभूतानि, आकासधातु उपादारूपं. एकस्मिं च उपादारूपे दिट्ठे सेसानि तेवीसति दिट्ठानेवाति सल्लक्खेतब्बानि. विञ्ञाणधातूति चित्तं विञ्ञाणक्खन्धो होति, तेन सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति इमे चत्तारो अरूपक्खन्धा नाम. चत्तारि पन महाभूतानि चतुन्नञ्च महाभूतानं उपादारूपं रूपक्खन्धो नाम. तत्थ चत्तारो अरूपक्खन्धा नामं, रूपक्खन्धो रूपन्ति नामञ्च रूपञ्चाति द्वेयेव धम्मा होन्ति, ततो उद्धं सत्तो वा जीवो वा नत्थीति एवं एकस्स भिक्खुनो सङ्खेपतो छधातुवसेन अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बं.

वित्थारतो परिग्गण्हन्तो पन चत्तारि महाभूतानि परिग्गण्हित्वा आकासधातुपरिग्गहानुसारेन तेवीसति उपादारूपानि परिग्गण्हाति. अथ नेसं पच्चयं उपपरिक्खन्तो पुन चत्तारेव महाभूतानि दिस्वा तेसु पथवीधातु वीसतिकोट्ठासा, आपोधातु द्वादस, तेजोधातु चत्तारो, वायोधातु छकोट्ठासाति कोट्ठासवसेन समोधानेत्वा द्वाचत्तालीस महाभूतानि च ववत्थपेत्वा तेसु तेवीसति उपादारूपानि पक्खिपित्वा पञ्चसट्ठि रूपानि ववत्थपेति. तानि च वत्थुरूपेन सद्धिं छसट्ठि होन्तीति छसट्ठि रूपानि पस्सति. विञ्ञाणधातु पन लोकियचित्तवसेन एकासीति चित्तानि. तानि सब्बानिपि विञ्ञाणक्खन्धो नाम होति. तेहि सहजाता वेदनादयोपि तत्तकायेवाति एकासीति वेदना वेदनाक्खन्धो, एकासीति सञ्ञा सञ्ञाक्खन्धो, एकासीति चेतना सङ्खारक्खन्धोति इमे चत्तारो अरूपक्खन्धा तेभूमकवसेन गय्हमाना चतुवीसाधिकानि तीणि धम्मसतानि होन्तीति इति इमे च अरूपधम्मा छसट्ठि च रूपधम्माति सब्बेपि समोधानेत्वा नामञ्च रूपञ्चाति द्वेव धम्मा होन्ति, ततो उद्धं सत्तो वा जीवो वा नत्थीति नामरूपवसेन पञ्चक्खन्धे ववत्थपेत्वा तेसं पच्चयं परियेसन्तो अविज्जापच्चया तण्हापच्चया कम्मपच्चया आहारपच्चयाति एवं पच्चयं दिस्वा ‘‘अतीतेपि इमेहि पच्चयेहि इदं वट्टं पवत्तित्थ, अनागतेपि एतेहि पच्चयेहि पवत्तिस्सति, एतरहिपि एतेहियेव पवत्तती’’ति तीसु कालेसु कङ्खं वितरित्वा अनुक्कमेन पटिपज्जमानो अरहत्तं पापुणाति. एवं वित्थारतोपि छधातुवसेन अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बं.

चक्खु फस्सायतनन्ति सुवण्णादीनं सुवण्णादिआकरो विय द्वे चक्खुविञ्ञाणानि द्वे सम्पटिच्छनानि तीणि सन्तीरणानीति इमेहि सत्तहि विञ्ञाणेहि सहजातानं सत्तन्नं फस्सानं समुट्ठानट्ठेन आकरोति आयतनं. सोतं फस्सायतनन्तिआदीसुपि एसेव नयो. मनो फस्सायतनन्ति एत्थ पन द्वावीसति विपाकफस्सा योजेतब्बा. इति हिदं छफस्सायतनानं वसेन कम्मट्ठानं आगतं. तं सङ्खेपतोपि वित्थारतोपि कथेतब्बं. सङ्खेपतो ताव – एत्थ हि पुरिमानि पञ्च आयतनानि उपादारूपं, तेसु दिट्ठेसु अवसेसं उपादारूपं दिट्ठमेव होति. छट्ठं आयतनं चित्तं, तं विञ्ञाणक्खन्धो होति, तेन सहजाता वेदनादयो सेसा तयो अरूपक्खन्धाति हेट्ठा वुत्तनयेनेव सङ्खेपतो च वित्थारतो च अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बं.

चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा. सोमनस्सट्ठानियन्ति सोमनस्सस्स कारणभूतं. उपविचरतीति तत्थ मनं चारेन्तो उपविचरति. सेसपदेसुपि एसेव नयो. एत्थ च इट्ठं वा होतु अनिट्ठं वा, यं रूपं दिस्वा सोमनस्सं उप्पज्जति, तं सोमनस्सट्ठानियं नाम. यं दिस्वा दोमनस्सं उप्पज्जति, तं दोमनस्सट्ठानियं नाम. यं दिस्वा उपेक्खा उप्पज्जति, तं उपेक्खाट्ठानियं नामाति वेदितब्बं. सद्दादीसुपि एसेव नयो. इति इदं सङ्खेपतो कम्मट्ठानं आगतं. तं खो पनेतं सङ्खेपतो आगतट्ठाने सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति. वित्थारतो आगतट्ठाने सङ्खेपतो कथेतुं न वट्टति. इमस्मिं पन तित्थायतनसुत्ते इदं सङ्खेपतो अट्ठारसमनोपविचारवसेन कम्मट्ठानं आगतं. तं सङ्खेपतोपि वित्थारतोपि कथेतुं वट्टति.

तत्थ सङ्खेपतो ताव – चक्खु सोतं घानं जिव्हा कायो, रूपं सद्दो गन्धो रसोति इमानि नव उपादारूपानि, तेसु दिट्ठेसु सेसं उपादारूपं दिट्ठमेव होति. फोट्ठब्बं तीणि महाभूतानि, तेहि दिट्ठेहि चतुत्थं दिट्ठमेव होति. मनो विञ्ञाणक्खन्धो, तेन सहजाता वेदनादयो तयो अरूपक्खन्धाति हेट्ठा वुत्तनयेनेव सङ्खेपतो च वित्थारतो च अरहत्तसम्पापकं कम्मट्ठानं वेदितब्बं.

अरियसच्चानीति अरियभावकरानि, अरियपटिविद्धानि वा सच्चानि. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं पदं विसुद्धिमग्गे (विसुद्धि. २.५२९) पकासितं. छन्नं, भिक्खवे, धातूनन्ति इदं किमत्थं आरद्धं? सुखावबोधनत्थं. यस्स हि तथागतो द्वादसपदं पच्चयावट्टं कथेतुकामो होति, तस्स गब्भावक्कन्ति वट्टं दस्सेति. गब्भावक्कन्ति वट्टस्मिं हि दस्सिते कथेतुम्पि सुखं होति परं अवबोधे उतुम्पीति सुखावबोधनत्थं इदमारद्धन्ति वेदितब्बं. तत्थ छन्नं धातूनन्ति हेट्ठा वुत्तानंयेव पथवीधातुआदीनं. उपादायाति पटिच्च. एतेन पच्चयमत्तं दस्सेति. इदं वुत्तं होति ‘‘छधातुपच्चया गब्भस्सावक्कन्ति होती’’ति. कस्स छन्नं धातूनं पच्चयेन, किं मातु, उदाहु पितूति? न मातु न पितु, पटिसन्धिग्गण्हनकसत्तस्सेव पन छन्नं धातूनं पच्चयेन गब्भस्सावक्कन्ति नाम होति. गब्भो च नामेस निरयगब्भो तिरच्छानयोनिगब्भो पेत्तिविसयगब्भो मनुस्सगब्भो देवगब्भोति नानप्पकारो होति. इमस्मिं पन ठाने मनुस्सगब्भो अधिप्पेतो. अवक्कन्ति होतीति ओक्कन्ति निब्बत्ति पातुभावो होति, कथं होतीति? तिण्णं सन्निपातेन. वुत्तञ्हेतं –

‘‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्सावक्कन्ति होति. कतमेसं तिण्णं? इध मातापितरो च सन्निपतिता होन्ति, माता च न उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति. नेव ताव गब्भस्सावक्कन्ति होति. इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च न पच्चुपट्ठितो होति, नेव ताव गब्भस्सावक्कन्ति होति. यतो च खो, भिक्खवे, मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति. एवं तिण्णं सन्निपाता गब्भस्सावक्कन्ति होती’’ति (म. नि. १.४०८).

ओक्कन्तिया सति नामरूपन्ति ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वुत्तट्ठाने वत्थुदसकं कायदसकं भावदसकं तयो अरूपिनो खन्धाति तेत्तिंस धम्मा गहिता, इमस्मिं पन ‘‘ओक्कन्तिया सति नामरूप’’न्ति वुत्तट्ठाने विञ्ञाणक्खन्धम्पि पक्खिपित्वा गब्भसेय्यकानं पटिसन्धिक्खणे चतुत्तिंस धम्मा गहिताति वेदितब्बा. नामरूपपच्चया सळायतनन्तिआदीहि यथेव ओक्कन्तिया सति नामरूपपातुभावो दस्सितो, एवं नामरूपे सति सळायतनपातुभावो, सळायतने सति फस्सपातुभावो, फस्से सति वेदनापातुभावो दस्सितो.

वेदियमानस्साति एत्थ वेदनं अनुभवन्तोपि वेदियमानोति वुच्चति जानन्तोपि. ‘‘वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति (चूळव. अट्ठ. १०२) एत्थ हि अनुभवन्तो वेदियमानो नाम, ‘‘सुखं वेदनं वेदियमानो सुखं वेदनं वेदियामीति पजानाती’’ति (म. नि. १.११३; दी. नि. २.३८०; विभ. ३६३) एत्थ जानन्तो. इधापि जानन्तोव अधिप्पेतो. इदं दुक्खन्ति पञ्ञपेमीति एवं जानन्तस्स सत्तस्स ‘‘इदं दुक्खं एत्तकं दुक्खं, नत्थि इतो उद्धं दुक्ख’’न्ति पञ्ञपेमि बोधेमि जानापेमि. अयं दुक्खसमुदयोतिआदीसुपि एसेव नयो.

तत्थ दुक्खादीसु अयं सन्निट्ठानकथा – ठपेत्वा हि तण्हं तेभूमका पञ्चक्खन्धा दुक्खं नाम, तस्सेव पभाविका पुब्बतण्हा दुक्खसमुदयो नाम, तेसं द्विन्नम्पि सच्चानं अनुप्पत्तिनिरोधो दुक्खनिरोधो नाम, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा नाम. इति भगवा ओक्कन्तिया सति नामरूपन्ति कथेन्तोपि वेदियमानस्स जानमानस्सेव कथेसि, नामरूपपच्चया सळायतनन्ति कथेन्तोपि, सळायतनपच्चया फस्सोति कथेन्तोपि, फस्सपच्चया वेदनाति कथेन्तोपि, वेदियमानस्स खो पनाहं, भिक्खवे, इदं दुक्खन्ति पञ्ञपेमीति कथेन्तोपि, अयं दुक्खसमुदयोति, अयं दुक्खनिरोधोति, अयं दुक्खनिरोधगामिनी पटिपदाति पञ्ञपेमीति कथेन्तोपि वेदियमानस्स जानमानस्सेव कथेसि.

इदानि तानि पटिपाटिया ठपितानि सच्चानि वित्थारेन्तो कतमञ्च, भिक्खवेतिआदिमाह. तं सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. २.५३७) वित्थारितमेव. तत्थ वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – तत्थ ‘‘दुक्खसमुदयं अरियसच्चं यायं तण्हा पोनोब्भविका’’ति (म. नि. १.१३३; दी. नि. २.४००; विभ. २०३) इमाय तन्तिया आगतं, इध ‘‘अविज्जापच्चया सङ्खारा’’ति पच्चयाकारवसेन. तत्थ च दुक्खनिरोधं अरियसच्चं ‘‘यो तस्सायेव तण्हाय असेसविरागनिरोधो’’ति (म. नि. १.१३४; दी. नि. २.४०१; विभ. २०४) इमाय तन्तिया आगतं, इध ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’ति पच्चयाकारनिरोधवसेन.

तत्थ असेसविरागनिरोधाति असेसविरागेन च असेसनिरोधेन च. उभयम्पेतं अञ्ञमञ्ञवेवचनमेव. सङ्खारनिरोधोति सङ्खारानं अनुप्पत्तिनिरोधो होति. सेसपदेसुपि एसेव नयो. इमेहि पन पदेहि यं आगम्म अविज्जादयो निरुज्झन्ति, अत्थतो तं निब्बानं दीपितं होति. निब्बानञ्हि अविज्जानिरोधोतिपि सङ्खारनिरोधोतिपि एवं तेसं तेसं धम्मानं निरोधनामेन कथीयति. केवलस्साति सकलस्स. दुक्खक्खन्धस्साति वट्टदुक्खरासिस्स. निरोधो होतीति अप्पवत्ति होति. तत्थ यस्मा अविज्जादीनं निरोधो नाम खीणाकारोपि वुच्चति अरहत्तम्पि निब्बानम्पि, तस्मा इध खीणाकारदस्सनवसेन द्वादससु ठानेसु अरहत्तं, द्वादससुयेव निब्बानं कथितन्ति वेदितब्बं. इदं वुच्चतीति एत्थ निब्बानमेव सन्धाय इदन्ति वुत्तं. अट्ठङ्गिकोति न अट्ठहि अङ्गेहि विनिमुत्तो अञ्ञो मग्गो नाम अत्थि. यथा पन पञ्चङ्गिकं तूरियन्ति वुत्ते पञ्चङ्गमत्तमेव तूरियन्ति वुत्तं होति, एवमिधापि अट्ठङ्गिकमत्तमेव मग्गो होतीति वेदितब्बो. अनिग्गहितोति न निग्गहितो. निग्गण्हन्तो हि हापेत्वा वा दस्सेति वड्ढेत्वा वा तं परिवत्तेत्वा वा. तत्थ यस्मा चत्तारि अरियसच्चानि ‘‘न इमानि चत्तारि, द्वे वा तीणि वा’’ति एवं हापेत्वापि ‘‘पञ्च वा छ वा’’ति एवं वड्ढेत्वापि ‘‘न इमानि चत्तारि अरियसच्चानि, अञ्ञानेव चत्तारि अरियसच्चानी’’ति दस्सेतुं न सक्का. तस्मा अयं धम्मो अनिग्गहितो नाम. सेसं सब्बत्थ उत्तानमेवाति.