५-६. सङ्गारवसुत्तादिवण्णना

११७-११८. पञ्चमे ओरिमं तीरन्ति लोकियं ओरिमतीरं. पारिमं तीरन्ति लोकुत्तरं पारिमतीरं. पारगामिनोति निब्बानगामिनो. तीरमेवानुधावतीति सक्कायदिट्ठितीरंयेव अनुधावति. धम्मे धम्मानुवत्तिनोति सम्मा अक्खाते नवविधे लोकुत्तरधम्मे अनुधम्मवत्तिनो, तस्स धम्मस्सानुच्छविकाय सहसीलाय पुब्बभागपटिपत्तिया पवत्तमाना. मच्चुधेय्यं सुदुत्तरन्ति मच्चुनो ठानभूतं तेभूमकवट्टं सुदुत्तरं तरित्वा. पारमेस्सन्तीति निब्बानं पापुणिस्सन्ति.

ओका अनोकमागम्माति वट्टतो विवट्टं आगम्म. विवेके यत्थ दूरमन्ति यस्मिं कायचित्तउपधिविवेके दुरभिरमं, तत्राभिरतिमिच्छेय्य. हित्वा कामेति दुविधेपि कामे पहाय. अकिञ्चनोति निप्पलिबोधो. आदानपटिनिस्सगेति गहणपटिनिस्सग्गसङ्खाते निब्बाने. अनुपादाय ये रताति चतूहि उपादानेहि किञ्चिपि अनुपादियित्वा ये अभिरता. परिनिब्बुताति ते अपच्चयपरिनिब्बानेन परिनिब्बुता नामाति वेदितब्बा. छट्ठं भिक्खूनं देसितं.