४. अजितसुत्तवण्णना
११६. चतुत्थे अजितोति एवंनामको. चित्तट्ठानसतानीति चित्तुप्पादसतानि. येहीति येहि चित्तट्ठानसतेहि अनुयुञ्जियमाना. उपारद्धाव जानन्ति उपारद्धस्माति विरद्धा निग्गहिता एवं जानन्ति ‘‘विरद्धा मयं, निग्गहिता मयं, आरोपितो नो दोसो’’ति. पण्डितवत्थूनीति पण्डितभावत्थाय कारणानि.