१. विभङ्गवारो

नहेतुपच्चयो

१४३. लोकियं धम्मं पच्चया लोकियो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं लोकियं एकं खन्धं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका लोकिया खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं).