२. चूळन्तरदुकं
७. सप्पच्चयदुकं
१. पटिच्चवारो
१-४. पच्चयानुलोमादि
१. सप्पच्चयं धम्मं पटिच्च सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया – सप्पच्चयं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं.
सप्पच्चयं धम्मं पटिच्च सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया…पे… अविगतपच्चया.
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं.
अनुलोमं.
३. सप्पच्चयं धम्मं पटिच्च सप्पच्चयो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सप्पच्चयं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे …पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं).
४. नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं…पे… नोविगते एकं.
पच्चनीयं.
५. हेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं…पे… नोविगते एकं.
अनुलोमपच्चनीयं.
६. नहेतुपच्चया आरम्मणे एकं अनन्तरे एकं…पे… अविगते एकं.
पच्चनीयानुलोमं.
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
७. सप्पच्चयं धम्मं पच्चया सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया – सप्पच्चयं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… पटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे… वत्थुं पच्चया सप्पच्चया खन्धा.
सप्पच्चयं धम्मं पच्चया सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
४-६. निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बो, सब्बत्थ एकायेव पञ्हा.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
८. सप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो – सप्पच्चया हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे….
आरम्मणपच्चयो
९. सप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति; पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे… वत्थुं… सप्पच्चये खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. चेतोपरियञाणेन सप्पच्चयचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… सप्पच्चया खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अधिपतिपच्चयो
१०. सप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा…पे… चक्खुं…पे… वत्थुं… सप्पच्चये खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – सप्पच्चयाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो. (१)
अनन्तरपच्चयादि
११. सप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे… उपनिस्सयपच्चयेन पच्चयो…पे… (द्वे पञ्हा उपनिस्सयमूलं) पुरेजातपच्चयेन पच्चयो…पे… अविगतपच्चयेन पच्चयो (सब्बत्थ एकायेव पञ्हा).
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१२. हेतुया एकं, आरम्मणे द्वे, अधिपतिया द्वे, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये द्वे, पुरेजाते एकं (सब्बत्थ एकं), अविगते एकं (एवं गणेतब्बं).
अनुलोमं.
पच्चनीयुद्धारो
१३. सप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
अप्पच्चयो धम्मो सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१४. नहेतुया द्वे, नआरम्मणे एकं, नअधिपतिया द्वे, नअनन्तरे द्वे, नसमनन्तरे द्वे…पे… नउपनिस्सये द्वे, नपुरेजाते द्वे…पे… नोविगते द्वे, नोअविगते द्वे (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१५. हेतुपच्चया नआरम्मणे एकं, नअधिपतिया एकं, नअनन्तरे एकं, नसमनन्तरे एकं, नअञ्ञमञ्ञे एकं, नउपनिस्सये एकं…पे… नसम्पयुत्ते एकं, नविप्पयुत्ते एकं, नोनत्थिया एकं, नोविगते एकं (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१६. नहेतुपच्चया आरम्मणे द्वे, अधिपतिया द्वे, अनन्तरे एकं…पे… उपनिस्सये द्वे, पुरेजाते एकं…पे… अविगते एकं (एवं गणेतब्बं).
पच्चनीयानुलोमं.
सप्पच्चयदुकं निट्ठितं.
८. सङ्खतदुकं
१. पटिच्चवारो
हेतुपच्चयो
१७. सङ्खतं धम्मं पटिच्च सङ्खतो धम्मो उप्पज्जति हेतुपच्चया – सङ्खतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं.
(इमं दुकं यथा सप्पच्चयदुकं, एवं गणेतब्बं, निन्नानाकरणं.)
सङ्खतदुकं निट्ठितं.
९. सनिदस्सनदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१८. अनिदस्सनं धम्मं पटिच्च अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया – अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा अनिदस्सनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा अनिदस्सनं कटत्ता च रूपं…पे… द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… महाभूते पटिच्च अनिदस्सनं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया – अनिदस्सने खन्धे पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… महाभूते पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (२)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो च अनिदस्सनो च धम्मा उप्पज्जन्ति हेतुपच्चया – अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा सनिदस्सनञ्च अनिदस्सनञ्च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… महाभूते पटिच्च सनिदस्सनञ्च अनिदस्सनञ्च चित्तसमुट्ठानञ्च रूपं कटत्तारूपं उपादारूपं. (३)
आरम्मणपच्चयो
१९. अनिदस्सनं धम्मं पटिच्च अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया – अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… वत्थुं पटिच्च खन्धा. (१)
अधिपतिपच्चयो
२०. अनिदस्सनं धम्मं पटिच्च अनिदस्सनो धम्मो उप्पज्जति अधिपतिपच्चया – अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा अनिदस्सनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… एकं महाभूतं पटिच्च तयो महाभूता…पे… द्वे महाभूते…पे… महाभूते पटिच्च अनिदस्सनं चित्तसमुट्ठानं रूपं उपादारूपं. (१)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो धम्मो उप्पज्जति अधिपतिपच्चया – अनिदस्सने खन्धे पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं, महाभूते पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं. (२)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो च अनिदस्सनो च धम्मा उप्पज्जन्ति अधिपतिपच्चया – अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा सनिदस्सनञ्च अनिदस्सनञ्च चित्तसमुट्ठानं रूपं…पे… द्वे खन्धे…पे… महाभूते पटिच्च सनिदस्सनञ्च अनिदस्सनञ्च चित्तसमुट्ठानं रूपं उपादारूपं. (३) (संखित्तं, सब्बे कातब्बा.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
२१. हेतुया तीणि, आरम्मणे एकं, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते तीणि, अञ्ञमञ्ञे एकं, निस्सये तीणि, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि (सब्बत्थ तीणि), मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया एकं, विगते एकं, अविगते तीणि (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
२२. अनिदस्सनं धम्मं पटिच्च अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा अनिदस्सनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… महाभूते पटिच्च अनिदस्सनं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके अनिदस्सने खन्धे पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… महाभूते पटिच्च सनिदस्सनं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं… बाहिरे… आहारसमुट्ठाने… उतुसमुट्ठाने… असञ्ञसत्तानं महाभूते पटिच्च सनिदस्सनं कटत्तारूपं उपादारूपं. (२)
अनिदस्सनं धम्मं पटिच्च सनिदस्सनो च अनिदस्सनो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं अनिदस्सनं एकं खन्धं पटिच्च तयो खन्धा सनिदस्सनञ्च अनिदस्सनञ्च चित्तसमुट्ठानं रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… महाभूते पटिच्च…पे… बाहिरे… आहारसमुट्ठाने… उतुसमुट्ठाने… असञ्ञसत्तानं महाभूते पटिच्च सनिदस्सनञ्च अनिदस्सनञ्च कटत्तारूपं, उपादारूपं. (३) (एवं सब्बे कातब्बा.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
२३. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
२४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि (सब्बत्थ तीणि), नकम्मे एकं, नविपाके तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
२५. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते तीणि, अञ्ञमञ्ञे एकं, निस्सये तीणि, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे तीणि…पे… झाने तीणि, मग्गे एकं, सम्पयुत्ते एकं, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया एकं, विगते एकं, अविगते तीणि.
पच्चनीयानुलोमं.
२. सहजातवारो
(सहजातवारोपि पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
हेतुपच्चयो
२६. अनिदस्सनं धम्मं पच्चया अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया – अनिदस्सनं एकं खन्धं पच्चया तयो खन्धा अनिदस्सनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया…पे… महाभूते पच्चया अनिदस्सनं चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, वत्थुं पच्चया अनिदस्सना खन्धा (इतरेपि द्वे पञ्हा कातब्बा).
आरम्मणपच्चयो
२७. अनिदस्सनं धम्मं पच्चया अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया – अनिदस्सनं एकं खन्धं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… वत्थुं पच्चया खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अनिदस्सना खन्धा (संखित्तं).
२८. हेतुया तीणि, आरम्मणे एकं, अधिपतिया तीणि…पे… अविगते तीणि.
अनुलोमं.
२. पच्चयपच्चनीयं
नहेतुपच्चयो
२९. अनिदस्सनं धम्मं पच्चया अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिदस्सनं एकं खन्धं पच्चया तयो खन्धा अनिदस्सनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका अनिदस्सना खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (इतरेपि द्वे कातब्बा. संखित्तं).
३०. नहेतुया तीणि, नआरम्मणे तीणि…पे… नोविगते तीणि.
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
३१. हेतुपच्चया नआरम्मणे तीणि…पे… नकम्मे एकं…पे… नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
३२. नहेतुपच्चया आरम्मणे एकं…पे… मग्गे एकं…पे… अविगते तीणि.
पच्चनीयानुलोमं.
४. निस्सयवारो
(निस्सयवारोपि एवं कातब्बो.)
५. संसट्ठवारो
१. पच्चयानुलोमं
३३. अनिदस्सनं धम्मं संसट्ठो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया – अनिदस्सनं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे….
अनिदस्सनं धम्मं संसट्ठो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया (एवं सब्बं सप्पच्चयगणनाहि सद्धिं कातब्बं).
६. सम्पयुत्तवारो
(सम्पयुत्तवारोपि संसट्ठवारसदिसो).
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३४. अनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो – अनिदस्सना हेतू सम्पयुत्तकानं खन्धानं अनिदस्सनानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
अनिदस्सनो धम्मो सनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो – अनिदस्सना हेतू सनिदस्सनानं चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
अनिदस्सनो धम्मो सनिदस्सनस्स च अनिदस्सनस्स च धम्मस्स हेतुपच्चयेन पच्चयो – अनिदस्सना हेतू सम्पयुत्तकानं खन्धानं सनिदस्सनानञ्च अनिदस्सनानञ्च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
आरम्मणपच्चयो
३५. सनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सनिदस्सनं रूपं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो; सनिदस्सना खन्धा इद्धिविधञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… कायं… सद्दे…पे… वत्थुं अनिदस्सने खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अनिदस्सनचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… सद्दायतनं सोतविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… अनिदस्सना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अधिपतिपच्चयो
३६. सनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सनिदस्सनं रूपं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (१)
अनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अनिदस्सने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अनिदस्सनाधिपति सम्पयुत्तकानं खन्धानं अनिदस्सनानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अनिदस्सनो धम्मो सनिदस्सनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अनिदस्सनाधिपति सनिदस्सनानं चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
अनिदस्सनो धम्मो सनिदस्सनस्स च अनिदस्सनस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अनिदस्सनाधिपति सम्पयुत्तकानं खन्धानं सनिदस्सनानञ्च अनिदस्सनानञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
अनन्तरपच्चयो
३७. अनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अनिदस्सना खन्धा पच्छिमानं पच्छिमानं अनिदस्सनानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… गोत्रभु मग्गस्स…पे… नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
समनन्तरपच्चयादि
३८. अनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… तीणि… अञ्ञमञ्ञपच्चयेन पच्चयो… एकं… निस्सयपच्चयेन पच्चयो… तीणि.