८. आरञ्ञिकङ्गकथावण्णना
३१. गामन्तसेनासनं पहाय अरञ्ञे अरुणं उट्ठापेतब्बन्ति एत्थ गामन्तं, अरञ्ञञ्च सरूपतो दस्सेतुं ‘‘तत्थ सद्धिं उपचारेना’’तिआदि आरद्धं. तत्थ गामपरियापन्नत्ता गामन्तसेनासनस्स ‘‘गामोयेव गामन्तसेनासन’’न्ति वुत्तं. यो कोचि सत्थोपि गामो नामाति सम्बन्धो. इन्दखीलाति उम्मारा. तस्साति लेड्डुपातस्स. विनयपरियायेन अरञ्ञलक्खणं अदिन्नादानपाराजिके (पारा. ९२) आगतं. तत्थ हि ‘‘गामा वा अरञ्ञा वा’’ति अनवसेसतो अवहारट्ठानपरिग्गहे तदुभयं असङ्करतो दस्सेतुं ‘‘ठपेत्वा गामञ्चा’’तिआदि वुत्तं. गामूपचारो हि लोके गामसङ्खमेव गच्छतीति. निप्परियायतो पन गामविनिमुत्तं ठानं अरञ्ञमेव होतीति अभिधम्मे (विभ. ५२९) गामा ‘‘निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति वुत्तं. सुत्तन्तिकपरियायेन आरञ्ञकसिक्खापदे (पारा. ६५४) ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आगतं आरञ्ञिकं भिक्खुं सन्धाय. न हि सो विनयपरियायिके ‘‘अरञ्ञे वसनतो आरञ्ञिको पन्तसेनासनो’’ति सुत्ते वुत्तो. अयञ्च सुत्तसंवण्णनाति इध सब्बत्थ सुत्तन्तकथाव पमाणं. तस्मा तत्थ आगतमेव लक्खणं गहेतब्बन्ति दस्सेन्तो ‘‘तं आरोपितेन आचरियधनुना’’तिआदिना मिननविधिं आह. तेनेव हि मज्झिमट्ठकथानयोव (म. नि. अट्ठ. १.२९६) इदमेत्थ पमाणन्ति च वुत्तो.
ततो ततो मग्गन्ति तत्थ तत्थ खुद्दकमग्गं पिदहति. धुतङ्गसुद्धिकेन धुतङ्गसोधनपसुतेन. यथापरिच्छिन्ने कालेति उक्कट्ठस्स तयोपि उतू, मज्झिमस्स द्वे, मुदुकस्स एको उतु. तत्थपि धुतङ्गं न भिज्जति सउस्साहत्ता. निपज्जित्वा गमिस्सामाति चित्तस्स सिथिलभावेन धुतङ्गं भिज्जतीति वुत्तं. अरञ्ञसञ्ञं मनसि करोन्तोति ‘‘अहं विवेकवासं वसिस्सामि, यथालद्धोव कायविवेको सात्थको कातब्बो’’ति मनसिकारसब्भावतो ‘‘भब्बो…पे… रक्खितु’’न्ति वुत्तं. अस्स आरञ्ञिकस्स चित्तं न विक्खिपन्ति आपाथमनुपगमनतो. विगतसन्तासो होति विवेकपरिचयतो. जीवितनिकन्तिं जहति बहुपरिस्सये अरञ्ञे निवासेनेव मरणभयस्स दूरीकरणतो. पविवेकसुखरसं अस्सादेति अनुभवति जनसंसग्गाभावतो. आराधयन्तोति अनुनयन्तो. यथानुसिट्ठं पटिपत्तिया विवेकस्स अधिट्ठानभावतो आरञ्ञिकङ्गयोगिनो वाहनसदिसन्ति कत्वा वुत्तं ‘‘अवसेसधुतायुधो’’ति, अवसिट्ठधुतधम्मायुधोति अत्थो.
इति आरञ्ञिकङ्गकथावण्णना.