७. खलुपच्छाभत्तिकङ्गकथावण्णना

३०. भुञ्जन्तस्स यं उपनीतं, तस्स पटिक्खेपेन तं अतिरित्तं भोजनन्ति अतिरित्तभोजनं. पुन भोजनं कप्पियं कारेत्वा न भुञ्जितब्बं, तब्बिसयत्ता इमस्स धुतङ्गस्स. तेनाह ‘‘इदमस्स विधान’’न्ति. यस्मिं भोजनेति यस्मिं भुञ्जियमाने भोजने. तदेव भुञ्जति, न अञ्ञं. अनतिरित्तभोजनपच्चया आपत्ति अनतिरित्तभोजनापत्ति, ततो दूरीभावो अनापज्जनं. ओदरिकत्तं घस्मरभावो कुच्छिपूरकता, तस्स अभावो एकपिण्डेनापि यापनतो. निरामिससन्निधिता निहितस्स अभुञ्जनतो. पुन परियेसनवसेन परियेसनाय खेदं न याति. अभिसल्लेखकानं सन्तोसगुणादीनं वुद्धिया सञ्जननं सन्तोसगुणादिवुड्ढिसञ्जननं. इदन्ति खलुपच्छाभत्तिकङ्गं.

इति खलुपच्छाभत्तिकङ्गकथावण्णना.