५. एकासनिकङ्गकथावण्णना
२८. नानासनभोजनन्ति अनेकस्मिं आसने भोजनं, एकनिसज्जाय एव अभुञ्जित्वा विसुं विसुं निसज्जासु आहारपरिभोगन्ति अत्थो. पतिरूपन्ति युत्तरूपं अनुट्ठापनीयं. वत्तं कातुं वट्टतीति वत्तं कातुं युज्जति. वत्तं नाम गरुट्ठानीये कत्तब्बमेव. तत्थ पन पटिपज्जनविधिं दस्सेतुं यं थेरवादं आह ‘‘आसनं वा रक्खेय्य भोजनं वा’’तिआदि. तस्सत्थो – एकासनिकं भिक्खुं भुञ्जन्तं आसनं वा रक्खेय्य, धुतङ्गभेदतो याव भोजनपरियोसाना न वुट्ठातब्बन्ति वुत्तं होति. भोजनं वा रक्खेय्य धुतङ्गभेदतो, अभुञ्जियमानं याव भुञ्जितुं नारभति, ताव वुट्ठातब्बन्ति अत्थो. यस्मा तयिदं द्वयं इध नत्थि, तस्मा वत्तकरणं धुतङ्गं न रक्खतीति अधिप्पायो. तेनाह ‘‘अयञ्चा’’तिआदि. ‘‘भेसज्जत्थमेवा’’ति इमिना भेसज्जपरिभोगवसेनेव सप्पिआदीनिपि वट्टन्तीति दस्सेति. अप्पाबाधताति अरोगता. अप्पातङ्कताति अकिच्छजीविता सरीरदुक्खाभावो. लहुट्ठानन्ति कायस्स लहुपरिवत्तिता. बलन्ति सरीरबलं. फासुविहारोति सुखविहारो. सब्बमेतं बहुक्खत्तुं भुञ्जनपच्चया उप्पज्जनविकारपटिक्खेपपदं. रुजाति रोगा. न कम्ममत्तनोति अत्तनो योगकम्मं पुरेभत्तं, पच्छाभत्तञ्च न परिहापेति, बहुसो भोजने अब्यावटभावतो, अरोगभावतो चाति अधिप्पायो.
इति एकासनिकङ्गकथावण्णना.