२. तेचीवरिकङ्गकथावण्णना

२५. चतुत्थकचीवरन्ति निवासनपारुपनयोग्यं चतुत्थकचीवरन्ति अधिप्पायो, अंसकासावस्स अप्पटिक्खिपितब्बतो. अञ्ञतरवचनेनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. याव न सक्कोति, याव न लभति, याव न सम्पज्जतीति पच्चेकं याव-सद्दो सम्बन्धितब्बो. न सम्पज्जतीति न सिज्झति. निक्खित्तपच्चया दोसो नत्थीति निचयसन्निधिधुतङ्गसंकिलेसदोसो नत्थि. आसन्नेति चीवरस्स आसन्ने ठाने. रजनक्खणे परिभुञ्जनकासावं रजनकासावं. तत्रट्ठकपच्चत्थरणं नाम अत्तनो, परस्स वा सन्तकं सेनासने पच्चत्थरणवसेन अधिट्ठितं. ‘‘अंसकासावं परिक्खारचोळं होति, इति पच्चत्थरणं, अंसकासावन्ति इमानि द्वेपि अतिरेकचीवरट्ठाने ठितानिपि धुतङ्गभेदं न करोन्ती’’ति अट्ठकथायं वुत्तन्ति वदन्ति. परिहरितुं पन न वट्टतीति रजनकाले एव अनुञ्ञातत्ता निच्चपरिभोगवसेन न वट्टति तेचीवरिकस्स. अंसकासावन्ति खन्धे ठपेतब्बकासावं. कायपरिहारिकेनाति वातातपादिपरिस्सयतो कायस्स परिहरणमत्तेन. समादायेवाति गहेत्वा एव. अप्पसमारम्भताति अप्पकिच्चता. कप्पिये मत्तकारितायाति निसीदनादिवसेन, परिक्खारचोळवसेन च बहूसु चीवरेसु अनुञ्ञातेसुपि तिचीवरमत्ते ठितत्ता. सह पत्तचरणायाति सपत्तचरणो. पक्खी सपक्खको.

इति तेचीवरिकङ्गकथावण्णना.